________________
कल्प. सुबो
व्या०६
॥१२०॥
दुक्खपहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( सा णं रयणी बहूहिं देवेहिं देवीहि य) सा रात्रिः बहुभिः देवैः देवीभिश्व ( ओवयमाणेहिं ) अवपतद्भिः ( उप्पयमाणेहिं ) उत्पतद्भिश्च कृत्वा ( उपिजलगमाणभूआ ) भृशं आकुला इव ( कहकहगभूआ आविहुत्धा ) अव्यक्तवर्णकोलाहलमयी अभवत् ॥ ( १२६ ) ॥
( जं रयणिं च णं समणे भगवं महावीरे ) यस्यां रात्रौ श्रमणो भगवान् महावीरः ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ( तं रयणिं च णं जिट्ठस्स ) तस्यां च रजन्यां ज्येष्ठस्य, किंभूतस्य : - ( गोअमस्स ) गोत्रेण गौतमस्य ( इंदभूइस्स ) इन्द्रभूतिनामकस्य ( अणगारस्स अंतेवासिस्स ) अनगारस्य शिष्यस्य (नायए पिज्जबंधणे वुच्छिन्ने ) ज्ञात जे - श्रीमहावीरविषये प्रेमबन्धने- स्नेहबन्धने व्युच्छि । नेत्रुटिते सति (अनंते ) अनन्तवस्तुविषये ( अणुत्तरे जाव केवलवरनाणदंसणे समुप्पन्ने ) अनुत्तरे यावत् केवलवरज्ञानदर्शने समुत्पन्ने, तच्चैवं स्वनिर्वाणसमये देवशर्मणः प्रतिबोधनाय कापि ग्रामे खामिना प्रेषितः श्री गौतमः तं प्रतिबोध्य पश्चादागच्छन् श्रीवीरनिर्वाणं श्रुत्वा वज्राहत इव क्षणं तस्थौ, वभाण च 'प्रसरति मिथ्यात्वतमो गर्जन्ति कुतीर्थिकौशिका अद्य । दुर्भिक्षडमरवैरादिराक्षसाः प्रसरमेष्यन्ति ॥ १ ॥ राहुग्रस्तनिशाकरमिव गगनं दीपहीनमिव भवनम् । भरतमिदं गतशोभं त्वया विनाऽद्य प्रभो ! जज्ञे ॥ २ ॥ कस्यांह्निपीठे प्रणतः पदार्थान् पुनः पुनः प्रश्नपदीकरोमि ? । कं वा भदन्तेति वदामि ? को वा, मां गौतमेत्यात गिराज्य वक्ता ? ॥ ३ ॥ हा ! हा ! हा ! वीर ! किं कृतं ? यदी शेऽवसरेऽहं दूरीकृतः, किं मांडकं मण्डयित्वा
'देवकोलाहलः गौतमकेवलम् सू. १२६-१२७
॥१२०॥