________________
कल्प.मुबो
व्या०६
RECASCARR
संवत्सरमासदिनरात्रि नामानि ॥११९॥
॥११९॥
मुक्तो भवोपग्राहिकर्मभ्यः (अंतगडे ) अन्तकृत् सर्वदुःखानां ( परिनिव्वुडे ) परिनिर्वृतः सर्वसन्तापाभावात्, तथा च कीदृशो जातः?-(सव्वदुक्खप्पहीणे) सर्वाणि यानि दुःखानि शारीरमानसानि तानि प्रहीणानि यस्य स तथा, अथ भगवतो निर्वाणवर्षादीनां सैद्धान्तिकनामान्याह-( चंदे नामे से दोच्चे संवच्छरे ) अथ यत्र भगवानिवृतः स चन्द्रनामा द्वितीयः संवत्सरः (पीइबद्धणे मासे ) प्रीतिवर्द्धन इति तस्य मासस्य कार्तिकस्य नाम ( नं दिवद्धणे पक्खे ) नंदिवद्धन इति तस्य पक्षस्य नाम ( अग्गिवेसे नाम दिवसे) अग्निवेश्य इति तस्य दिवसस्य नाम ( उवसमेत्ति पवुच्चइ ) उपशम इति प्रोच्यते, उपशम इति तस्य द्वितीयं नामेत्यर्थः ( देवागंदा नाम सा रयणी) देवानन्दा नाम्नी सा अमावास्यारजनी (निरतित्ति पवुच्चइ ) निरतिः इत्यप्युच्यते नामान्तरेण ( अच्चे लवे ) अर्चनामा लवः (मुहुत्ते पाणू ) मुहूर्त्तनामा प्राणः (थोवे सिद्धे ) सिद्धनामा स्तोकः (नागे करणे) नागनामकं करणं, इदं च शकुन्यादिस्थिरकरणचतुष्टथे तृतीयं करणं, अमावास्योत्तरार्द्ध हि एतदेव भवतीति ( सव्वट्ठसिद्ध मुहुत्ते ) सर्वार्थसिद्धनामा मुहूर्तः (साइणा नक्वत्तेणं जोगमुवागएण) स्वातिनामनक्षत्रेण चन्द्रयोगे उपागते सति भगवान् ( कालगए जाव सव्वदुक्खप्पहीणे ) कालगतः यावत् सर्वदुःखप्रक्षीणः ॥ अथ संवत्सरमासदिनरात्रिमुहर्तनामानि चैवं सूर्यप्रज्ञप्तौ
एकस्मिन् युगे पञ्च संवत्सरास्तेषां नामानि-चन्द्रः १ चन्द्रः २ अभिवर्द्धितः ३ चन्द्रः ४ अभिवति ५ श्चेति संवत्सरनामानि। अभिनन्दनः १ सुप्रतिष्टः २ विजयः ३ प्रीतिवर्द्धनः ४ श्रेयान् ५ शिशिरः६ शोभनः७ हैम
IAGE