________________
CA
खमवि
BASAKA
% 8
में णिच्छियहा) विनिश्चितार्थाः, अत एव (अहिगयट्ठा) अभिगतार्था:-अवधारितार्थाः सन्तः ( सिद्धत्थस्स रन्नो पुरओ) सिद्धार्थस्य राज्ञः पुरतः (सुमिणसत्थाई उच्चारेमाणा उच्चारेमाणा) स्वमशास्त्राण्युचारयन्तः (सिद्धत्थं खत्तियं) सिद्धार्थ क्षत्रियं ( एवं वयासी) एवमवादिषुः, स्वप्नशास्त्राणि पुनरेवं-अनुभूतः १ श्रुतो २ दृष्टः ३, प्रकृतेश्च विकारजः ४ । स्वभावतः सद्भुत ५श्चिन्तासन्ततिसम्भवः ६॥१॥ देवतागुपदेशोत्थो ७, धर्मकर्मप्रभावजः ८। पापोद्रेकसमुत्थश्च , स्वप्नः स्यान्नवधा नृणाम् ॥२॥ प्रकारैरादिमैः षभिरशुभश्च शुभोऽपि वा । दृष्टो निरर्थकः स्वमः, सत्यस्तु त्रिभिरुत्तरैः ॥ ३ ॥ रात्रेश्चतुर्षु यामेषु, दृष्टः स्वप्नः फलप्रदः। मासै दशभिः षभिस्त्रिभिरेकेन च क्रमात्॥४॥निशाऽन्त्यघटिकायुग्मे, दशाहात् फलति ध्रुवम् । दृष्टः सूर्योदये स्वमः, सद्यः फलति निश्चितम् ॥५॥ मालास्वप्नोऽहि दृष्टश्च, तथाऽऽधिव्याधिसम्भवः । मलमूत्रादिपी| डोत्थः, स्वनः सर्वो निरर्थकः ॥ ६॥ धर्मरतः समधातुर्यः स्थिरचित्तो जितेन्द्रियः सदयः । प्रायस्तस्य प्रार्थितमर्थ: स्वप्नः प्रसाधयति ॥७॥ न श्राव्यः कुस्वनो गुर्वादेस्तदितरः पुनः श्राव्यः। योग्यश्राव्याभावे गोरपि कगें | प्रविश्य वदेत् ॥८॥ इष्टं दृष्ट्वा स्वप्नं न सुप्यते नाप्यते फलं तस्य । नेया निशाऽपि सुधिया जिनराजस्तवनसंस्तवतः॥९॥ स्वप्नमनिष्टं दृष्ट्वा सुप्यात्पुनरपि निशामवाप्यापि । नायं कथ्यः कथमपि केषांचित् फलति न स यस्मात् ॥१०॥ पूर्वमनिष्टं दृष्ट्वा स्वप्नं यः प्रेक्षते शुभं पश्चात् । स तु फलदस्तस्य भवेद् द्रष्टव्यं तद्वदिष्टऽपि ॥११॥ स्वमे मानवमृगपतितुरङ्गमातङ्गवृषभसिंहीभिः । युक्तं रथमारूढो यो गच्छति भूपतिः स भवेत् ॥१२॥
444445%
RANG