________________
श्वेतवरचामरैरुद्धयमानैश्च शोभित इति शेषः पुनः किंवि० ? ( मंगलजयसद्दकपालोए) मङ्गलभूतो जयशब्दः कृत आलोके - दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० १ ( अणेगगणनायगत्ति ) अनेके ये गणनायकाः- स्वस्वसमुदायस्वामिनः ( दंडनायगत्ति ) दण्डनायकाः तन्त्रपालाः स्वराष्ट्रचिन्ताकर्त्तारः इत्यर्थः (रायत्ति ) राजानो - माण्डलिकाः (ईसरत्ति) ईश्वराः - युवराजाः 'पाटबीकुंवर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, असमासान्तागमनेन युवराजा इति प्रयोग भवनात् (तलवरत्ति ) तलवराः - तुष्ट भूपालप्रदत्तपहवन्धविभूषिता राजास्थानीयाः (माडंबियत्ति) माडम्बिका:- मडम्बस्वामिनः (कोडुंबियत्ति) कौटुम्बिका:- कतिपयकुटुम्बस्वामिनः (मंतित्ति) मन्त्रिणो - राज्याधिष्ठायकाः सचिवाः (महामंतित्ति) महामन्त्रिणः त एव विशेपाधिकारवन्तः (गणगत्ति) गणकाः - ज्योतिषिकाः (दोवारियत्ति ) दौवारिकाः - प्रहाराः (अमचत्ति) अमात्याःसहजन्मानो मन्त्रिण: ( चेडत्ति) चेटा - दासाः (पीठमद्दत्ति) पीठमर्द्दकाः- पीठं आसनं मदयन्तीति पीठमर्दकाः, आसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नगरा - नगरवासिनो लोकाः (निगमत्ति) निगमा - वणिजः (सेट्टित्ति) श्रेष्ठिनो-नगरमुख्यव्यवहारिणः ( सेणावइत्ति ) सेनापतयः चतुरङ्ग सेनाधिकारिणः ( सत्थवाहत्ति ) सार्थवाहाःसार्थनायकाः (दूअत्ति) दूताः - अन्येषां गत्वा राजादेश निवेदकाः (संधिवालत्ति ) सन्धिपालाः- सन्धिरक्षकाः (सद्धिं संपरिवुडे) एतैः सर्वैः सार्धं संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामतीति योगः, अथ