________________
श्रीदशवैकालिक
चूर्णौ १ अध्ययने
॥ १ ॥
अथ दशवैकालिकचूर्णिः
नमो जिनागमाय । णमो अरहंताणं णमो सिद्धाणं णमो आयरियाणं, मंगलादीणि सत्थाणि मंगलमज्झाणि मंगलावसाणाणि य, मंगलपरिग्गहीता य सिस्सा सत्याणं अवग्रहेहावायधारणसमत्था भवति, ताणि य सत्थाणि लोगे विरायंति वित्थारं च गच्छति । आहमंगलमिति किमर्थमुपादीयते, उच्यते, विघ्नविनायकाद्युपशमनार्थमुपादीयते, आह-यद्येतन्मंगलत्रयेण किं प्रयोजनंः, उच्यते, आदिमंगलग्रहणेन शिष्यस्तच्छाखं क्षिप्रं गृह्णाति, मध्य मंगलग्रहणेन तस्य शास्त्रस्य शिष्यो निर्विशेन पारं गच्छति, अवसानमङ्गलग्रहणेन तच्छास्त्रं शिष्यप्रशिष्येभ्यो अध्यवच्छित्तिकरं भविष्यति, अनेन प्रयोजनेन मंगलत्रयमुपादीयते, आह-यदेतन्मंगल त्रपापांतरालद्वयं तन्नामामंगलिकं प्राप्नोति, उच्यते, तत्र अंतरालस्याभावाद्दंडवच्च सर्वमेव शास्त्रं मंगलं निर्जरात्मकत्वात्तपोवत्, एवं तर्हि शास्त्रस्यामंगलत्वं प्राप्नोति, कस्माद्, अन्येन मंगलेन मंगलीक्रियमाणत्वात्, यदि तावच्छास्त्रं मंगलं किमस्यान्यन्मंगलमुपादीयते ?, अथामंगलं किमनेनारब्धेन, उच्यते, शास्त्रं हि स्वयमेव मंगलं अन्येषां च मंगलं भवति, स्वपरानुभावात्मकसामर्थ्ययुक्तत्वाद् गुडलवणाग्निप्रदीपवत्, एवं तर्ह्यनवस्था प्राप्नोति यदि मंगलस्यापि मंगलमुपादीयते तस्याप्यन्यत् तस्याप्यन्यद्, एवं मंगल उपादीयमाने भारमाशीर्माला प्रसज्यते, सत्यमतत् किं तर्हि ?, शिष्यस्य मंगलबुद्ध्युत्पादनार्थमिदमुच्यते साधुवत् ॥ मंगलमिति कः शब्दार्थः १, रख णख वख मख अगि वगि मगीति धातुमवस्थाप्य अस्य धातोः 'इदितो नुम् धातो' (पा०७/१/५८) रिति नुमागमः परस्य अवर्ण
मंगलत्रयं
॥ १ ॥