________________
आगमो
A| शमनिर्णयः
द्वारककृति सन्दोहे
॥७३॥
मन्यच्च, प्रान्त्ये दुष्प्रसभेऽपि किम् ॥१२॥ नासौ यदमितायुष्को, न चानन्तर जन्मनि । शिवभाक् , क्षायिक चास्य, सम्यक्त्वमुपवर्ण्यते ॥१३ ॥ श्रीप्रभस्यापि गणिनो, निशीथे महति श्रुते । दुष्षमामध्यमे भागे, सम्यक्त्वं क्षायिकं मतम् ।।१४।। सत्यं त्रयो नैकजन्म-भाविमोक्षाः परं त्वमी । दधतेऽव्याहतं शुद्ध, दर्शनं क्षायिका मताः ॥१५॥ क्षायोपशमिके शुद्ध, व्यपदेशः कृतो भवेत् । क्षायिकस्यान्यथा किं नु, भवादिव्यत्ययो भवेत् ? ॥१६॥ विनान्त्यजन्म सङ्ख्याब्दायुष्कस्तजम चान्तरा। सार्वदिष्टं विनाऽन्यस्मिन्न च स्यात्क्षायिकार्जकः ॥१७॥ किं च कृष्णेन रामाय, प्रेतेनापि रिपोः शुचे। दर्शयित्वा निजां . मूर्ति, सृष्टिकृत्वादि चोदितम् ॥१८॥ रामोपि तच्चकाराशु, भ्रातृस्नेहवशंवदः । स्नेहः सन्मार्गपाथोऽर्को, मिथ्यात्वाम्बुधिचन्द्रमाः ॥१९॥ कार्मग्रन्थिकसूरीणां, तथा सिद्धान्तदेशिनां । आचार्याणां मतं नात्र भवादिनियमे पृथक् ॥२०॥ तदेषा मतिरस्माकं, क्षायोपशमदर्शने । शुद्धे, श्रुतधन्यस्त, आरोपः क्षायिकस्य तु ॥२१॥ अन्यस्त्वितरथा ख्यातं, मान्यं सत्यान्वितं मम । अत्रार्थेऽतीन्द्रिये यन्न, प्रमाणं मुग्धकल्पना ॥ २२ ॥ श्रोतृणां मा विपर्यासः, शङ्कया भूजिनागमे । परस्परविरुद्धार्थ-माकर्ण्य मतिमोहतः ॥ २३ ॥ ततो मनीषयाऽस्माभिः, शास्त्रीयोक्तिदृढीकृता । अन्यथा वस्तुतत्वं चेन् , मिथ्यादुष्कृतमस्तु नः ॥ २४ ॥ सर्वे सम्यक्त्ववन्तः स्युः, श्रोतारः श्रीजिनागमे । याचना प्रविधायेति, विरमे श्लोकदृम्भणात् ॥ २५ ॥ इत्यं शायिकदर्शनाप्तिरितरग्रन्थोदिता केशवा-येषु पाप न सङ्गतिं न च विधिस्तत्रौचितीमञ्चति । सम्यक्त्वस्य तथाविधस्य गदितः शास्त्रोचयेऽतस्त्विमं, कृत्वा ग्रन्थमणुं समाधिविधये याचेऽमृतानन्दिताम् ॥२६॥ इति क्षायिकभवसङ्ख्याविचारः ।।
शमनिर्णयः (२९) नत्वा वीरं जगद्वन्धं, मोक्षमार्गस्य देशकं । शमस्वरूपशङ्काया, निर्णयं वच्मि वाङ्मयात् ॥१॥ चारि
॥७३॥