________________
R
आगमो. द्धारककृतिसन्दोहे
विचारः
॥७२॥
कुरुतेऽसुमान् ॥२२॥ यथा शुद्ध जलं जातं, परेषां शुद्धये भवेत् । तथा सम्यक्त्वमाप्यान्या-नगिनोमार्गमानयेत् । ॥२३॥ यद्यप्यभव्यतोऽनन्ता, बुद्ध्वा सिद्धिं गता नराः। तथापि ते तदुद्देशा न, भव्या नित्यं
सायिकभः तदर्थिकाः ॥ २४ ॥ वस्त्रं यथोपभोगार्ह, चिरं कालं तथाङ्गिनां। सम्यक्त्वं येन तत्साधनन्तमपि प्रजायते । ॥२५॥ पृथक् पृथग् मया भावः, पल्यादीनामुदीरितः । ज्ञातानामात्ममोदायोशन्तु सम्यग् बुधाः परम् ॥२६॥ KI
वसङ्ख्याइतिसम्यक्त्वज्ञातानि ॥
क्षायिकभवसङ्ख्याविचारः (२८) . नत्वा मोहमहाराति-मानमर्दनमालिनं । जिनं निर्जरसन्तान-ततकीर्ति जगत्प्रभुम् ॥१॥ सम्यक्त्वे क्षायिके लब्ये, शेषां भवभ्रमावलीं। शास्त्रदृष्टया विनिर्णीय, वच्मि स्वान्यावबुद्धये ॥२॥ क्षीणे निश्शेषतो दृष्टि-मोहसप्तक आप्यते । दर्शनं क्षायिकं यत्तन्निर्मलं व्यभ्रचन्द्रवत् ॥३॥ न सम्यग्दर्शनाणूनामुदयाद्दर्शनाहतिः। चेत्तदैषां क्षये किं न सम्यग्दर्शननास्तिता ? ॥४॥ भेदं दर्शनदृष्टयोर्ये, मन्यन्ते साणुदर्शनं । साच्छादं विगमे दय्या, दृष्टिरिष्टा बुधैस्तकैः ॥५॥ निर्मलेऽभ्र यथा नार्क-तापो भुवि निहन्यते । अभ्रापगमभावे तु, स प्राचुर्येण भासते ॥६॥ तथात्र दर्शनाणूना-मुदयात् शङ्कितादयः । तेषां क्षये विलीयेत, शङ्काकासादि दूषणम् ॥७॥ क्षायिके दर्शने लब्धे, नायुर्बद्धं तदा नरः । समाप्य क्षपकश्रेणिं, लभते पदमव्ययम् ।। ८ । बद्धायुविरमेतात्र, स्वर्गे श्वभ्रेऽमितायुपि । नरे तिरश्चि यात्येष, नापरत्रेति शास्त्रगीः ॥९॥ अनन्तरे भवे स्वर्गी, नारको वा शिवं व्रजेत् । अमितायुनरस्तिर्यग् , देवीभूय पुमान् पुनः ॥१०॥ जातो महोदयं याया-देवं क्षायिकदर्शने । लब्धे भवानां त्रितयं, चतुष्कं वावशिष्यते ॥ ११॥ कथं कृष्णनरेन्द्रस्य क्षायिके दर्शने स्थितं । भवपञ्चक