SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगमो द्धारक कृति दो ॥४२॥ 1 are || १ || निशीथभाष्ये । नन्वेते विहारदोषाः प्रावृषं समाश्रित्योक्ताः, 'एते तु पाउसमि'त्तिवचनात्.' नित्यावस्थानरूपे वर्षावासे नेति चेत् । न, 'वासासु' त्ति वचनेन वर्षाविहारेऽप्येतेषामेव दोषाणां सद्भावस्य सूचनात् । ननु तर्हि ग्रामानुग्रामविहारस्योभयोरपि प्रावृडूवर्षालक्षणयोः ऋत्वोर्निषेधे समानेषु दोषेषु किमिति द्वयोर्भिन्न सूत्रमिति । सत्यं, 'वासासु णवरि लहुग' त्ति वचनात् प्रायश्चित्तभेदात् तदर्थं भिन्ने सूत्र इति । एवं च पर्युषणाकल्पीयं सूत्रं प्रावृषि विहारमनुज्ञातुं प्रवृत्तमित्यर्थापत्ति विकल्प्य नैव मन्तव्यं । ननु प्रकल्पोक्तरीत्या प्रावृषि विहर्तु चतुर्गुरुकाः, वर्षासु तु लघवः आपद्यन्ते । तथा चाषाढपूर्णिमात एव नियतावस्थानं प्रतिपाद्यं, केवल वर्षासु नियतावस्थानस्य प्रतिपादनेन तु प्रावृषि विहारस्यानुज्ञापत्तिः स्यात्, गुरुदोषकरणानुज्ञापूर्वकलघुदोषनिषेधेन प्रवचनार्थव्याघात इति । सत्यं, यदि प्रावृविहारस्य दोषाणां प्रतिपादनेन निषेधं नाकरिष्यत्तदा भवदुक्तः प्रवचनार्थ व्याघातः स्यात् । ननु यद्युभयोरपि प्राष्टडूवर्षालक्षणयोः ऋत्वोर्विहारस्य निषेध ग्रामानुग्रामविहारनिषेधेनैकत्रावस्थान नियमस्तर्हि किमर्थं पर्युषणाकल्पीयं सूत्रं वर्षाविहारस्य नियतावस्थानरूपायै पषणायै प्रावृतदिति । सत्यं, 'सिद्धे सत्यारम्भो नियमायें' त्युक्तेर्नियतावस्थाननियमायेदं सूत्रं । ननु कृते नियमे नियमातिरिक्तनियतसदृश विषये पूर्वोक्त विधिसूत्रस्याप्रवृत्तेरागतैव प्रावृषि विहारस्यानुज्ञेति चेत् । न तत्रापि विहारस्य प्रतिपदेन दोषाणां प्रतिपादनात् । ननु तर्हि नियतावस्थानस्य वर्षासु नियमने किं फ लमिति ? चेत् । सत्यं, प्रावृड़विहारे यानि 'वास न सु आरद्ध' मित्यादीनि गृहिणां पुरतोऽवस्थान सन्दिग्ध'तोक्तौ कारणानि तेषामसम्भवं दर्शयित्वा नियतावस्थानं विधायात्र स्थिताः स्मेति गृहिणां पुरो नियतावस्थानकथनमाज्ञापयन्ति सूत्रकाराः । अत एवं गृहिज्ञाताज्ञातपर्युषणा भेदः, नतु विहारावस्थानभेदेनेति । ननु गृहिणां पुरतः अवस्थानस्योदितौ सन्दिग्धनिश्वयोक्तिरूप एव भेदः, प्रावृड्वर्षाऋतू अधिकृत्य परोऽपि वाऽस्ति विशेष: ? इति चेदस्ति, कोसौ विशेष इति चेत् । योग्यक्षेत्रालाभे तृणडगलाद्यलाभेऽपि च ग्रामानुग्राम विहारस्यानुज्ञा प्रावृषि, ज्ञात पयुषणा ॥४२॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy