SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ कृति ॥३६॥ || चूर्णिकाराद्या, वक्तुं शक्या ह्यसदृशः । तथोक्तौ न च पञ्चाङ्ग्याः , प्रामाण्यं न च शासनम् ॥५१॥ पाक्षिकं आगमोतचतुर्दश्यां, प्रतिपक्षं श्रुतोदितम् । आषाढ्याद्याश्चतुर्मास्य-श्चतुर्दशीषु सङ्गताः ॥५२॥ नन्देवं न्यनतामेति. सांवत्सद्धारक पाक्षिकत्रितयं यतः । चतुर्मासीप्रतिक्रान्ती, क्रियते नहि पाक्षिकम् ॥५३॥ वर्षस्यान्तस्ततो वो न, चतु- रिकनि विंशतिरुद्भवेत् । पाक्षिकाणां त्रये न्यूने, तच सिद्धान्तबाधितम् ॥५४॥ न तावत् पाक्षिकाण्याहुनियतानि यः सन्दोहे मुनीश्वराः। तत एवाधिके मासे, पाक्षिकद्वयमेधते ॥५५॥ चतुर्मासी यतो वृद्धौ, मासो न परिवर्त्तते । ततो नियता विज्ञेया माभिराषाढमुख्यकैः ॥५६॥ ससक्रान्तिको यदाषाढस्तस्य शुक्ला चतुर्दशी। यदा तदा चतुर्मासी, तदीयामाहुः कोविदाः ॥५७॥ अत एवागमे प्रोक्त-मभिवर्धितवत्सरे । अवस्थानादि विंशत्या, दिनानां तु व्यतिक्रमे ॥५८॥ चन्द्रेषु त्रिषु यस्मात् स्याद् , वर्षा श्रावणगाऽऽदिमा। अभिवर्धितवर्षे तु, भवेदक ततस्तथा ॥५९॥ अत एवान्यथाकारे, तत्र, षटकायगोचराम् । विराधनां जगौ गीत-यशाः शास्त्रे प्रपञ्चत: ॥६०॥ अन्यथा तत्र सम्यक्त्व-ज्ञानादिहतीर्वदेत् । संवत्सरप्रतिक्रान्तिर्यत आचारपञ्चके ॥६१॥ अत एव जिनाचार, आश्रितः कल्प आगमे। यतोऽत्राख्यायते वीर-मादितस्तत्परम्परा ॥६२॥ न च तीर्थेश्वराः कल्पा-तीताश्च कः प्रतिक्रम: । आराध्याभावतस्तेषां, का कथा वार्षिके तदा ॥६३॥ यथा वर्षास्ववस्थानं, तेषां नियतमाश्रितं । तथाऽन्येषामपीष्ट तत् , सूरीणां कल्पवाङ्मये ॥६४॥ हेतुपृच्छा कृता तत्र, यदा तत्राप्युदाहरत् । गृहस्थैः स्वगृहं स्वार्थसंस्कृतं स्याद्यथा तथा ॥६५॥ न च सांवत्सरे हेतुः, स्यात् प्रतिक्रमणे 'सकः । तथा च वर्षावस्थान ज्ञापकं तद्वचो मतं ॥६६॥ अत एव च तुर्येङ्ग, वर्षावस्थानमाश्रितं । निश्रीकृत्य जिनं वीरं, सविंशे मासि सङ्गतम् ॥६७॥ शेषेषु सप्ततौ तत्र, दिनानां पर्व वर्णितम् । वार्षिकं पर्व यन्न स्याजिनानां कल्पितामृते ॥६८॥ किश्च स्थानागपत्रेऽपि, पञ्चमेऽध्ययने जगौ। गणभृद्वाचमाश्रि- |॥३६।। त्या-भयदेवसूरीश्वरः ॥६९॥ न विहारो मुनीनां स्यायुक्तः प्रथमप्रावृषि । परं स सापवादोऽस्ति, नापवादस्तु ।।
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy