SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगमोद्धारक कृतिसन्दोहे | ||३१|| श्येति यावत् । एवं च पूर्वा अपर्वतिथिनाम्ना व्यपदेश्येति फलितोऽर्थः। एवं पर्वानन्तरपतिथेः क्षयवृद्धयोर्यावत्सम्भव इति न्यायेन पूर्वतरापर्वतिथ्योर्हानिवृद्धी कार्ये इति । एतादृशे सत्यपि सिद्धान्ते पारम्पये च Iोदय केचित्तपोगच्छीया विप्रतिपद्यन्तेऽधुना, यदुत-'संवच्छरचाउम्मासे पक्खियअट्ठाहियासु य. तिहीसु । ताओ सिद्धान्तः पमाणं भणिया जाओ सूरो उदयमेई' ॥१॥ तिवचनात् 'उदयमि जा तिही सा पमाणमियरीइ कीरमाणीए । | आणाभंगऽणवत्थामिच्छत्तविराहणं पावे ॥१॥ ति वचनाचोदयवतीनां सप्तम्यादीनामनुदयवदष्टम्यादिकरणं सम्पूर्णोदयवतीनामष्टम्यादित्वे सत्यपि सप्तम्यादित्वकरणं च न कथञ्चनापि घटाकोटीमाटीकते, तस्माद्यथोदयमेव तिथयः कार्या इति । ननु पर्वतिथीनां हानौ वृद्धौ चोदयस्याभावे द्विर्भावे च सति तैः किं पर्वतिथेरनुष्ठानं क्षेप्यं वर्धनीयं चेति ? । नो तथा, किन्तु पूर्वतिथौ क्षीणपर्वतिथेरनुष्ठानं, परं व्यपदेशोऽपर्वतिथिसत्कनाम्नैव, द्विर्भावे चोभयमपि पर्वतिथिनाम्नैव व्यपदेश्य, परं पर्वतिथिसत्कमनुष्ठानं तु द्वितीयोदयस्पर्शिन्यां कार्यमितिचेत् , सप्तम्यादित्वमभ्युपगम्य किंनिमित्तकमुपवासादिकरणं तदा प्रथमोदयस्पर्शिन्यां चाष्टम्यादौ तिथौ किं न तदष्टम्यादिनिमित्तता स्वीक्रियते कथं च पाडित्यातिरेकदर्शिनी व्याख्याकुशलतां परिहृत्यानुदयेऽष्टम्यादिक्रियाया आदृतिः, सति चाष्टम्यादेख्दये व्यवहारे चाष्टम्यादिक्रियाया आद्यदिने अनादृतिश्चेत्युभयं क्रियते स्वीक्रियते च एवमनुदये करणादाराधनाया अष्टम्यादिनिमित्तायाः सति चोदये तदकरणात् स्ववचसैव ते जाता मिथ्यात्वादिदोषचतुष्टयवन्त इति । नन्वस्ति तेषामाराधनायास्तथाविधाया आलम्बनं ?, 'क्षये पूर्वा तिथिः कार्या वृद्धौ कार्या तथोत्तरेत्युमास्वातिनाम्नाख्यातः प्रघोषः । सत्यं, विद्यते एष प्रघोषो मान्यश्च, परं तत्र पूर्वायाः पर्ववविधानमुत्तराया एव च पर्वतिथित्वविधानं समादिष्टं । विधानमाराधनायास्तु तत्तद्विधिनियमयोरङ्गीकारेण व्यपदेशं तत्तत्तिथ्यादित्वेन कृत्वैव स्वीकारे च तथाविधे 'उदयं- ।। ॥३१॥ मी' त्यादि बाधितमेव तदा तवेति । 'ननु किं तर्हि 'ताओ'त्यादि 'उदयमी'त्यादि च वचो व्यर्थमेवेति ?:चेद्, ।
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy