SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ स्याद्वादवाकि शिका कृति सन्दोहे कस्यचित् पुनः। नित्यानित्यान् समानाख्याजिनः समपदार्थवित् ॥७॥ निश्चयं व्यवहारस्तं, व्यथते स च निर्भयम् आगमो । परस्परसमावेशं, तीर्थाधारं जिनोऽवदत् ॥८॥ आर्थान् नयान् नयाः शाब्दा, प्रन्ति ते प्रन्ति चतकान् । उभयान् द्धारक सर्वगानाख्यअिनः स्याद्वाददेशकः ॥९॥ नैगमं सांग्रही नीतिस्तां हन्ति व्यवहारिणी । पारम्पर्येण दृष्ट्वेति, मतं सर्वनयात्मकम् ॥१०॥ अभिलाप्यं तथा नेति, जगुर्वस्तु परेऽबुधाः । उभयात्मकतार्थानां, जगदे जगदुत्तमैः ॥११॥ पर्याया नाम करणिर्द्रव्यं भावस्तथोचिरे । स्वतन्त्राः सव्यपेक्षांस्तु, तानाह जगदीश्वरः ॥१२॥ पर्यायान् सत आचष्टे, परेऽसत उदित्वरः । मुनिः स्वतः सतोज्यस्मा दसतः सर्ववस्तुषु ॥१३॥ नैवोत्पादमयं विश्व, न पुनर्विशरारु च । ध्रुवं नोत्पादविगम-ध्रौव्यरूपं जगत्पुनः ॥१४॥ न दुःखी न सुखी जीवः, सर्वथा सर्वधामसु । संसारिणां विचित्रे स्तः, सुखदुःखे स्वकर्मजे ॥१५॥ सान्ताः समे न चानन्ता, अर्था, भुवनगाः स्मृताः । अन्तानन्तमयं विश्वं, वस्तु जिनप ऊचिवान् ॥१६॥ साद्याः समे न चानाद्या, अर्था भुवनगामिनः । आद्यनादिमयं सर्व, जगदीशो जजल्प तत् ॥१७॥ एकात्मकं जगत्सर्व, मन्वते केचिदन्ततः । अनेकरूपं तच्चान्ये, जिन एकेतरात्मकम् ॥१८॥ मुक्त्यै सर्व जगद्योग्य-मयोग्यं मन्वतेऽपरे । योग्यायोग्यमयाः सर्वे, भविनस्त्विति जैनवाक् ॥१९॥ आत्मा ज्ञानमयः कैश्चित् , कैश्चिदुक्तः क्रियामयः। अनन्तैः पर्ययराढय, सर्व वस्तु यथार्थवाक ॥२०॥ हिंसाधाय मता कैश्चित् , परैः स्वर्गाय काचन । यथाभावमघं पुण्यं, निर्जरेति जिनेशगीः ॥२१॥ मृषाद्या नरकायैव, न तथेति च केचन । अनेकान्तेन वितता, देशना जगदी श्वरैः ॥२२॥ क्रिया बन्धाय केषाश्चित् , परेषां घिषणैव च । यथायोगं युगं चैतन् , मन्यते मुनिकुञ्ज IN ॥२३॥ उत्क्रामन्तेऽगिनः सर्वे, न तथेति परे पुनः । विचित्रा विश्वगा वृत्ति रनेकान्तमते पुनः ॥२४॥ । सूर्याचन्द्रमसौ स्थास्नू , केचित् केचिच्च चञ्चलौ । अवादिषुर्मत तथ्य, जगत्सर्व चलाचलम् ॥२४॥ असदुत्प SSSS ॥२६॥
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy