________________
आगमोद्धारक
त्रिशिका
सन्दोहे
|१४||
धर्म दिशन्ति जनसिद्धवचः प्रतीत्य ॥१॥ ज्ञानमात्मगुणत्वेन, त्वमात्थात्मस्वभावभृत् । परैस्त्विन्द्रियपूगोत्थं, IN समवायेन संश्रितम् ॥२॥ देहपर्यन्तमात्मानं, त्वमात्थ तद्गुणाश्रयात् । अन्ये जगति सर्वेषामात्मनां व्यापितां । लोकोत्तजगुः ॥३॥ ज्ञानमन्यत्र स्मृत्यादि, तेषां चान्यत्र सज्यते । वैचित्र्यं ज्ञानगं नैव, तेषां जीवसमाक्षतः ॥४॥ रतत्त्वद्वायायित्यं प्रेत्य तेषां स्यान्नात्मनां किन्तु चेतसः। जडं च तैर्मतं तत्तु, भिदा कैषां तु नास्तिकात् ? ॥५॥ शरीरमान आत्मा ते, प्रेक्ष्यते तद्गतो यतः। भवान्तरं समेतः संस्तद्भवीयां तनुं श्रयेत् ॥६॥ सिद्धत्वमपि सम्प्राप्तो, घनत्वात् पूर्वकायतः। त्रिभागोनावगाहनः साधनन्ततया स्थितः ॥७॥ परात्मस्थानि कर्माणि, परान् दानादिकर्मसु । प्रेरयन्तीति सिद्धं ते, लोकोत्तरमते किल ॥८॥ परेषां सिद्धिमाप्तानां, न ज्ञानं सुखमण्वपि । मते ते तु सदा सिद्धा, ज्ञानसौख्यसमन्विताः ॥९॥ किञ्च तेऽनन्तजीवानां, राशिलॊके मतस्ततः। सिद्धानां न पुनर्जन्म, परेषां तु प्रवादिनाम् ॥१०॥ अतीन्द्रियार्थबोधस्याभावान्न स्थावराङ्गिनां । बोधस्ततो मितान् जीवा-नाहुर्मुक्तस्य जन्म च ॥११॥ युग्मम् ॥ परें पुण्यकृतेर्मार्ग-मभिषेकादि चक्षिरे । दानादिजिनपूजादि, दयादि त्वन्मते पुनः ॥१२॥ कर्मणामणवो जीवे, बध्यन्ते ते मते ननु । तेन ते सुखदुःखस्य, विधातृत्वेन सम्मताः ॥१३॥ गुणोऽदृष्टं परेरुक्तं, जीवस्य न परं भुवि । सर्वेषामगिनां तुल्य-महों आत्मगुणे मतम् ॥१४॥ पक्षपातग्रहग्रस्ता, निषेदु जैनसङ्गमम् । पुण्यनाशाम्बुसंसर्गा-नाशं पुण्यस्य चक्षिरे ॥१५॥ सम्यक्त्वाद्या गुणा मुक्तिं, ददते ते मते किल । देष्टा वर्धयिता शास्त्रेस्तेषां तन्मोक्षदो भवान् ॥१६॥ साजात्येतरबोधादीन् , हेतून मुक्तेः परे जगुः। तदेते तत्त्वतो वादे ज्ञानाद्येकान्तमाश्रिताः ॥१७॥ आत्मनस्तादवस्थ्येऽपि, भवो मुक्तिश्च जायते । परस्परविरुद्धौ तन्मतेऽनैकान्तिके वरम् ॥१८॥ किश्च मत्वा गुणान् जीवे, तदावृत्य त्वयोदिता । ज्ञाननादितया कर्माचली नान्यबोधत: ॥१९॥ आश्रवास्तन्मताः शाखे, चित्रा ज्ञानद्विडादयः । परेषु नैव लेशोऽस्त्या-श्रवसंवरतत्त्वगः॥२०॥ किञ्च त्वदीयशास्त्रेषु,
॥१४॥ मता अष्टादशाश्रयाः। हिंसाद्यास्तजमेनस्तु, श्वभ्रादिष्वनुभूयते ॥२१।। परैस्तु लोकसम्बोध्यो, व्यवहारः समा
-
-
-