________________
आगमोद्वारक
कृति
सन्दोहे
॥१३॥
न च जिनेन्द्रार्चा । साक्षात्संयमपुष्टयै बाधा च तदुपकृतेधरणे ॥८८॥ संयमबाधाहतये स्यादपवादस्तपस्विनां । नियमात् । तन्न जिनेन्द्रांर्चेषामपवादपदं भवेजातु ॥८९॥ ज्ञानाद्यर्थ वर्षाकाले यमिनां विहरणं प्रोक्तं । निक्षेपयत्तत्संयमो तस्य फलं मनसि निध्याय ॥९०॥ पूजा जिनबिम्बानां संयमपुष्टथे न गण्यते क्वापि ।
शतकम् तत्सामान्येनोक्ता नैपा यमिनां परपदेऽपि ॥११॥ न च वाच्यं बिम्बेषु ज्ञानादिगुणा न लेशतः सन्ति । तत्कथमेषामर्चा युक्ता तर्यादिगणगानाम ? ॥९२॥ यस्मात्सर्वगुणाढथा जिनास्तदारोपतोऽथ बिम्बेषु । तेषां पूजा नरसुरसुखाय मुक्त्य च विज्ञेया ॥९३॥ यद्वद् ब्राहम्ये लिप्ये ज्ञानारोपेण गणधरसुधर्मा । व्याख्याप्रज्ञप्तौ नमतीह तथैषां न किं पूजा? ॥९४॥ यद्वा यद्वदसाधः साधुपदेप्सुर्मुदाऽर्च्यते भवतां । यद्वा यथा कलेवरमनगारस्याय॑ते विगुणम् ॥९५॥ अज्ञान् सावद्योक्त्या भीतिमुत्पादयन् जिनेन्द्राचा । परिहारयन् न किं त्वं परिहरसीज्यां स्वकीयां ताम् ? ॥९६॥ आदिजिनेन्द्रोक्त्यां किं मश्करिवेपों मरीचिरागत्य । न नतो भरतनृपेण ? सत्यं चेदत्र का शङ्का ? ॥९७॥ न च वाच्यं नाभाद्या निक्षेपास्त्रय इहादृता द्रव्ये । पर्याये भावस्याऽभ्युपगमनं सैव तत्त्वपरः ॥९८॥ उभयनयाश्रितमहन्मां विबुध्येयमुक्तिरहीं न । आकण्ठामृतपीनो न विषोद्गारं नरो मुश्चेत् ॥९९॥ तेनैकनयापेक्षं द्रव्यस्यावस्तुतां समुद्वीक्ष्य । मुह्येद् बुधो न यस्मात् स स्याद्वादश्रुतं वेत्ति ॥१००॥ इत्थं श्रीजिनराजसूरिवृषभादीनां जिनाज्ञारतः, सदृष्टिश्चतुरोऽपि शुद्धमनसा न्यासान् सदा मन्यते । सोनामुत्र जिनेन्द्रशासनमलं प्रोद्भाव्य लोकेऽखिले, निर्भाश्याखिलकर्मबन्धनिचयं स्वानन्दमुग्रं भजेत् १०१॥ इति निक्षेपशतकम् ॥ लोकोत्तरतत्त्वद्वात्रिंशिका (५)
| ॥१३॥ लोकोत्तरं जिन ! तवेदमुदीयते ज्ञैर्यच्छासनं प्रतिपदं निजशास्त्रराज्यां । तमत्वमेव ग्रदमी परवादिनोऽत्र, III