________________
-
नय
द्वारक
3
||५||
साधारणं मतम् ॥१८॥ मनुते व्यवहारोऽत्र, कार्य सन्नैव कारणे । कार्योत्पादाय तद्यत्नः, क्रिया तन्नाफला ।। आगमो
समा ॥१९॥ ब्रूतेऽत्र निश्चयो हेती, सदा कार्य न यत्कृति: । मृदं विहाय कुम्भस्य, तन्त्वादौ सम्भवेत् । क्वचित् ॥२०॥ आविर्भावोत्र कार्यस्य, कृतिसाध्यो न यत्क्वचित् । एकस्मिन् सर्वकार्याणा-मुत्पत्ति: कारणे
विचारः कृति
मता ॥२१॥ साधयेद् यत्र यत् सत् स्याद्, नान्यद् यतस्ततो नहि । असतः खरशृङ्गादेरुत्पत्त्यै यत्नवान्नरः सन्दोहे
॥२२॥ हेतुतां मन्यते हेतोः, सजातीनां नयः परः । समेषां निश्चयो नैव, किन्तु कार्यकृतां तकाम् ॥२३॥ भव्यस्य मोक्षगामित्वं, व्यवहारोऽभिमन्यते । अयं तु सिद्धं भव्यत्व-भाजमाह न चापरम् ॥२४॥ पलालं न दहत्यनिर्भज्यते न घटः क्वचित् । नरका निगमो नास्ति, शन्यं न च प्रवेश्यते ॥२५॥ प्रव्रजेन्नामुनि.व, मिथ्याङ्क शुद्धग भवेत् । अज्ञानी नाप्नुयात् ज्ञाचं, संसारी नैव सिद्धथति ॥२६॥ निश्चयोऽत्र वदन्नेवं, प्राह धर्ममयोगजं । शेषं तदुपचारेण, यावदप्रमदं मुनिम् ॥२७॥ कुर्वद्रूपं वदन् कार्य, वदत्याग न साधुतां । चरणोपहतौ ज्ञानं, दर्शनं केवलं न च ॥२८॥ गुणधाम्नो मतेऽस्या उद्याजन्तुजति सप्तमम् । मौनं सम्यक्त्वमाहाऽतः, सम्यक्त्वं मौनमेव च ॥२९॥ अस्यात्मा स्वगुणारामी, मोहं त्यक्त्वा भजनिजं । चारित्रं दर्शनं ज्ञानं, कषायेन्द्रियनियात् ॥३०॥ नास्याविरतसदृष्टिर्न देशविरतो न च । प्रमत्तसंयतश्चापि, व्यवहारात समेप्यमी ॥३१॥ न शङ्काद्या अतीचारा, न च बन्धवधादयः । न चाप्रशस्तयोगाद्याः, किन्त्वेते भङ्गभाजनम् ॥३२॥ ततो ये निश्चयं ख्या-त, आत्मवेत्तृत्वमानिनः । ब्रुवन्तो मार्गशंसित्वं, सदारारम्भकिञ्चनाः ॥३३॥ गुरुत्वं स्वेषु सर्वेषां, श्रोतणां रोपयन्ति च । श्राद्धसाधुपदस्थानी, जुगुप्सन्ते सदा क्रियाम् ॥३४॥ सूत्रानुसारतस्तेषां, निश्चयाभासमग्नता । नाकल्पानां श्रियं राज्ञां, विन्देद्रीरिमयं क्वचित् ॥३५॥ ज्ञानेनोद्योतिते | मार्गे, भास्करण तमो नहि । तथाऽत्मरूपविज्ञाने, न लवो मोहसीधुजः ॥३६॥ कलत्रेष्वादरं द्युम्ने, मनो"! वृत्तिमघोचये । इन्द्रियेष्वभिरामित्वं, बालिशत्वं गतोपमम् ॥३७॥ कषाये स्विन्नचित्तत्वं, धारयन्तो दिवानिशम् । ||
| ॥५॥