________________
आगमोद्धारक
कृति
सन्दोहे
||४||
नयविचारः (२)
नयकृतार्थो वाप्य कैवल्यं, तथाभव्यत्वमाविदन् । तीर्थ दिदेश भगवा-निश्चयव्यवहारयुक् ॥१॥ सामग्रीमा- IN
विचारः प्य जीवः स्याद्, बहुधा परिणामभाक् । परिणामितया योग्यो, न मृदस्तन्तुजोद्भवः ॥२॥ समवेतं परे प्राहुः, । कार्य तन्नैव युक्तिमत् । पटो जायेत तन्तुभ्यः, तन्तवश्व पटोद्भवाः ॥३॥ एकतन्तुविनाशे स्यात्, तेषां ॥ पटविनाशनं । कृतिं विनेतरद् वस्त्र-मुत्पद्यत च तत् कथम् ॥४॥ परिणामी भवेद्धतुर्यावन्तस्तन्तवः पटे । परिणाममितास्तावन्माना पटमितिस्ततः ॥५॥ न्यून वृन्देऽथ तन्तूनां, न्यूनो यथा पटो भवेत् । तथाऽपायेपि केषाञ्चित्पटात्तेषां मितिः परा ॥६॥ तन्तूनां नाशको तन्तुः, केषाञ्चित् घातको मितेः । प्राक्तनायाः पटस्येष, नूत्नाया जनकोपि स ॥७॥ अवनामस्तुलादण्डे, यथोन्नामाविनाकृतः । प्राकूपर्यायविनाशेऽपि, तथान्योत्पत्तिरिष्यताम् ॥८॥ समवायोऽपि सम्बन्धः, कल्पितो नैव तात्त्विकः । न श्लेषादिरिवेक्ष्यन्ते, समवाया हि कुत्रचित् ॥९॥ असत्त्वे समवायस्य, का समवायिकार्यता ? । अभावे तस्य को हेतु-भवेदसमवायतः ॥१०॥ पटनाशे च तन्तूना-माविर्भावात् न हेतुता । पटस्य समवाये न, तन्तूनां न्यायदृष्टितः ॥११॥ पटोत्पादे न तन्तूनां, नाशस्तत्समवायिता । वस्त्रात् तन्तुसमुत्पादे, न वस्त्रं तत्कथं सका ? ॥१२॥ एवं वदन् समेतस्त्वं, शुभे स्याद्वादवम॑नि । वस्त्रस्योभयरूपत्वाङ्गीकारो नान्यथा तव ॥१३॥ तथा तन्तौ पटांशे किं, सति युक्तिविहीनता । व्यूतौ जायेत नूनं नानुपादानं समीक्ष्यताम् ॥१४॥ इष्येत चेत् परीणामो, स्ताद्वस्त्रं च तन्तवः । मृदः कपालौ कुम्भश्च, तत्ते परिणामिकारणे ॥१५॥ तथा च खण्डयोवस्त्र-कुम्भयोरुद्भवे नहि । कतव्येश्वरकर्तृत्व-कल्पनाऽपि सचेतसाम् ॥१६॥ यथा(तो) तनुः प्रभुः खण्डकार्योद्भूतौ समिष्यते । श्रद्धया युक्तया तां त- M ॥४॥ त्यक्त्वा परिणामितां श्रय ॥१७॥ उपादानं शिवोत्पादे, जीवः कर्मच्युतिः पुनः । इतरत्कारणं सर्व, शेषं