________________
॥२७॥
भागमो. IN ॥६६६॥ न तथा सज्जते माता, बाले मोहविमोहिता । बालोऽज्ञोऽपि यथा तस्यां, सङ्गसाम्राज्यसङ्गतेः ॥६६७॥ सङ्गस्य INI श्रमणधदारककृति- महिमाऽनून, एष बालो पि लाति यद् । न तन्मोचयितुमीशः, सहसा स्वजनोऽपि हि ।। ६६८ ।। इष्टं वा स्यादनिष्टं वा, मसहस्त्री सन्दोहे
कार्यकृद्वा तदन्यथा । अविचार्यैव गृह्णाति, बालः सङ्गविमोहितः ।। ६६९ ॥ बालस्य नैव विभवो, न चायत्तत्वमर्थगं । न व्यवस्थाविधायित्वं, तथापि स्वजतेऽखिले ॥६७०॥ शिशुवृन्दे तथा सजेच्छिशुत्वे क्रीडनोत्सुकः । साङ्गदर्थविहीनेऽपि, हित्वा मोहं कुटुम्बजम् ।।६७१॥ सहाधीतिकरे जाते, बालानां स्वजते तथा । मात्रादिप्रेमरमण-मुखं सङ्गाद्विहाय च ॥ ६७२ ॥ स्पर्शनादीन्द्रियार्थेषु, नोपयोगी मनागपि । अर्थस्तं प्राप्तुमनीशं, यतेतासौ तु सङ्गतः ।।६७३।। योषायां सजते जीव-स्तथा सङ्गवशीकृतः । प्रसू तातं सोदरांश्च, स्वजमानोऽपि मुश्चति ।। ६७४ ॥ आप्तो वृद्धत्वमासक्तः, सर्वेष्वर्थेषु सन्ततं । आर्तमापूरयस्तिष्ठेनेशः किंचन साधितुम् ॥ ६७५ ।। कश्चनानेतुमात्मीयं, यौवनं व्ययितं पुरा । रसायनेऽपि यतते, वृद्धः सङ्गमभावतः ॥६७६।। श्वसनहोनिशं ग्रस्तो, गदैः प्राणप्रहारिभिः । भैषज्ये भिजि प्रीणः, सक्तो वृद्धोऽनुताम्यति ॥६७७।। मरणोपानमुपेतोऽपि, हातव्यमखिलं. विदन् । सङ्गमाहात्म्यतो वृद्धः, सर्वेष्वर्थेषु मुह्यति ॥ ६७८ ॥ महिमा सङ्गमावस्य, यद्विदन धर्मसारतां । न तं वृद्धोऽपि सन्धातु-मीष्टे सांसारिके रतः ।।६७९|| जानीते सर्व एवाङ्गी, मृते मे नास्ति किञ्चन । तथापि सङ्गमाहात्म्यान ममत्वं नैव मुश्चति ॥ ६८० ॥ देहोऽयं पदमप्येकं, नानुयाति मृतानसून् । तथापि जन्तवः सर्वे, सङ्गाद्रक्षन्ति यत्नतः ॥६८१॥ मलैराळ्या यथा ग्राम्य-गत्री रम्या त्वचा बहिः । अमेध्यैर्विविधैः पूर्णोऽयं कायस्तत्र का रतिः ? ॥६८२॥ वेद्यो यदातुरं काय, शस्त्रैविध्यते रोगिणः । अन्तर्गतं जनाः प्रेक्ष्य, किं न मूर्छा ययुः स्वकाः ? ॥६८३॥ 4 ॥२७॥