SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ आगमो द्वारककृति सम्दोहे ॥२६३ ॥ कुचिताङ्गी गतेक्षणा । शिवं धर्ममश्रुत्वापि, मानसादतु लागलात् ।। ५४८ ॥ भागिनेया ग्रामबाह्ये, स्थिता भागे नतीप्सवः । मातुलं लेभिरे किं न केवलं मनसो बलात् ? ।। ५४९ ।। विराद्धा बन्धनात्पाल्याप्कायव्रजतेः पुनः । पात्रनावा मुनिः कि नाभूत्सर्वज्ञो मनोबलात् ? ।।५५० ।। दुष्टेन वचसा प्रापु -जवा भावमनेकशः । पणाङ्गनायास्तद्धीमान् वचः संवृणुते दृढम् ।। ५५१।। घातः शरीरजो रोहे - द्वासरैरेव, नो पुनः। दुर्वाक्यजनितो घातो, मृते रोहति वा न वा ॥ ५५२ || दुर्वाक्यमहतः श्वापि, जात्यो जीवितमुज्झति । धियालोच्य वचः प्रीत- मनवद्यं बुधो वदेत् ॥ ५५३ ॥ मृदुवागनुयोगी यः पर्षदं प्रतिबोधयेत् । मुनिचन्द्र इव द्विष्टा - मन्यथोक्तिर्विपर्ययेत् ॥ ५५४॥ मिथ्यावचः प्रभावेन, मरीचिर्भ्रान्तवान् भवे । वचसा दुष्टतामाप्ता, भवे भ्रान्तास्तु निह्नवः || ५५५ | | साम्येन वचसा शिष्टो, मेघो वीरेण बुद्धवान् । विष्णुना निहतः सिंहः, साम्यवाक्येन शं गतः || ५५६ ॥ दुर्वाग्बाणहताः सन्तो, दिधीर्षन्ति न जीवितं । सम्भावितापकीर्तीनां मृत्युस्तेषां हितावहः ||५५७|| नापकर्तु क्षमा दुष्टाः, सञ्जनान् दुष्टवाक्छरान् । क्षिप्त्वा निहन्तुमिच्छन्ति, दृष्टानां लक्षणं ह्यदः || ५५८|| दुष्टेन वचसा दूनो, गजः सेचनको गतः । अङ्गारपरिखां मुक्त्वा, मर्तु हलविल्लकौ ॥ ५५९ ॥ धर्म्येण वचसा बुद्धा, अनुजा भरतेशितुः । बली च केवल लेमे, भगिनीवचनाडतः ॥५६०॥ समाने केवले तीर्थ - पानां वाग्भ्यो गणेशितां । लेभिरे गणभृज्ज्येष्ठा - स्तद्वचः सुन्दरं हितम् ॥ ५६१ ॥ वचःसंलीनतां विश्र - द्विनयी नयवान् गणी । पारं गत्वाऽनुयोगानां शासनस्य धुरां धरेत् ||५६२ || मनसा कर्मणा दुष्ट - माचीर्ण क्रियते मुधा । मिथ्यादुष्कृतवाक्येन, भावसारं विधानतः ॥ ५६३ ॥ क्रुद्धो मानी प्रपञ्चाढ्यो, लुब्धो मार्गमवातरेत् । यदि सद्वाक्यपीयूष - पानं सद्भि: समर्प्यते ॥ ५६४ ॥ श्रूयते शामितः क्रुद्धो, द्वैपायनोऽन्त्यविष्णुना । सरामेण 1 1 श्रमणध ही ॥२६३॥
SR No.600283
Book TitleAgamoddharak Kruti Sandohe Part 01
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages302
LanguageSanskrit
ClassificationManuscript
File Size21 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy