________________
आगमो
द्धारककृति दोहे
॥ १४३ ॥
2
योगे प्रथमं तावदवधेयमिदं यत् - यथा यथा जिनविषयं बहुमानमुल्लसति तथा तथा तद्विषया भक्ति: प्रकर्षमारोहति यथा यथा च भक्तिप्रकर्षस्तथा तथा तत्र प्राणाधिकस्यापि वित्तस्य व्ययं विधातुमुत्सहते वर्धयति च । अत एव महोपकारक श्रीमज्जिनाधीशभक्तिनिमित्तकं द्रव्यं ततश्चावसर एवोत्सर्पणतिज्ञाने आवश्यकीयस्य जिनवित्तस्य । तत्र प्रथमं तावद् देववित्तस्य वर्धनं ग्रामारामगृहाट्टाद्यर्पणादिना, यतस्तथाविधेनैव द्रव्येण भगवतो विम्बस्य समारचनं महापूजा सत्कार स्यात् । यतो दर्शनशुद्धिकारा आहु:"भक्खे जो उवक्खेड़, जिणदव्वं तु सावओ । पन्नाहिणो भवे जो उ, लिप्पड़ पावकम्मुणा ।। आयाणं जो भंजइ पडिवन्नं धनं न देइ देवस्स । नस्संतं समुवेक्खइ सोवि हु परिभमइ संसारे ॥ चेइयदव्वं साहारणं च जो दुहइ मोहिमईओ । धम्मं व सो न जाणइ अहवा बद्धाउओ
नरए || चेइयदव्यविणासे तदचविणासणे दुविहभेए | साहू उविक्खमाणो अनंत संसारिओ भणिओ ।। जिणपवयणबुटिकरं पभावगं नाणदंसणगुणाणं । रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ जिणपवयणवुढिकरं पभावकं नाणदंसणगुणाणं । वडूढ़तो जिणदव्वं तित्थयरत्तं लहइ जीवो,
देवाभञ्जकशिक्षा (२४) नम्रेन्द्रमौलिमाणिक्योत्तेजिताङ्घ्रियुगं जिनं । महावीरं प्रणम्याथ, शिक्षां वच्मि श्रुताश्रिताम् १ || आदौ तावदाख्यातं केनचित् यदुत्सर्पणां घृततैलद्रम्मादीनां कृत्वा पूजादिविधानमर्हतां तदशास्त्रीयं, यश्चैवमुत्सर्पणात उत्पद्यते द्रव्यं पूजादिविधौ तन्न केनापि नियमितंयदमुकत्र क्षेत्रे व्ययितव्यं । किञ्च - अधुना न देवद्रव्यं कार्यकरं न चावश्यकं, वृद्धिस्तु सुतरामनर्थकेति
देवायभन्जकशिक्षा
॥१४३॥