________________
आगमो द्वारककृति
सन्दोहे
॥ १२४॥
A
ज्ञानराहित्यं द्वितीयस्य गुरुपारतन्त्र्याभावोऽविज्ञातधर्मत्वे हेतु- | सम्यग्दृष्टिः, सम्यग्दर्शनस्य सहगतत्व नियमात् । यद्यपि रिति पार्थक्यं । ओघश्रद्धामत्त्वं द्वयोरपि चारित्रस्य देशारा - धकतायाश्च हेतुः, पूर्णाराधकतायां तस्यावस्थानमावश्यकं देशस्यैवंलक्षणात् । न हि वस्त्रवाणिज्यं रत्नवाणिज्यस्यांशः, लघुमहद्रत्नवाणिज्ययोरंशांशीभावस्तु स्पष्ट एव । अपुन बन्धकानां तत्तत्तन्त्रोक्तक्रियाणां मार्गानुसारित्वमनाग्रह - साम्राज्येन स्यादपि, न ताः परमनुमोदनीयाः, अनुमोदयास्तु जैन्यस्तदनुकारिण्यो वाऽन्यतन्त्रोक्ताः, अन्यथा शैवलादिभक्षणस्य नियोगस्य सयज्ञवधस्यानुमोदनीयत्वापातात् । अनाग्रहाणां जैन्योऽपि क्रियाः सम्भवन्त्येव, अनेकेषां साधूनामवगाहेन सम्यक्त्वोत्पत्तिश्रुतेः । श्रीनवपदप्रकरणे 'मिथ्यात्वस्यानाग्रहों गुण' इत्युक्तेर्न मिथ्यात्वमनुमोद्यं, पूर्णापेक्षयाऽर्धान्न्यूनस्य देशत्वात् । त्रयापेक्षयैकस्य तथाच्वे द्वितीयस्मिन् भङ्गे विज्ञातधर्मा अनुपरतः । स चाविरति -
अत्र विज्ञातधर्मशब्देन ज्ञानस्य प्राधान्यं दर्शनसूचकस्य तु शब्दमात्रस्याप्यभावः परं गुणस्थानेषु पुरुषप्रकारेषु च नैकोऽपि तथाविधो भेदोऽस्ति, यत्र ज्ञानप्राधान्येन सयोगिवत् ज्ञानवत्तामात्रेण भिद्येत । अनुपरतापरपर्यायासंयतेन विशिष्टं चतुर्थ अविरतिसम्यग्दृष्टिगुणस्थानं तद्वांश्च पुरुष एव लभ्येत ततो ज्ञातधर्मानुगताविरतिमान् दर्शनप्राधान्यवानेवोदाहृतः । अस्ति हि सम्यग्दर्शनज्ञानयोः समा व्याप्तिः । नहि कोपि विज्ञातधर्मो ज्ञानहीनः न वा ज्ञानयुक्तः सम्यग्दर्शनहीनः । अत एव च विज्ञातधर्मत्वेन सम्यग्दर्शनज्ञानयोरुभयोर्ग्रहणं । तत एव च सम्यग्दर्शनादित्रय - रूपस्य मोक्षमार्गस्य सम्यग्दर्शनज्ञानरूपमंशद्वयं विज्ञातधर्मत्वेन गृहीत, त्रयापेक्षया द्वयस्याधिकत्वार्धत्वादेव देशविराधकताव्यपदेशो पि । रूप्यकादिष्वपि पादार्धपरि
श्रुतशीलचतुर्भङगी
॥ १२४॥