________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३५७॥
शरिकाभिः कृतं सूर्यादि 'परगं' वंशनिष्पन्नं छब्बकादि 'वरगं' मण्यादि महाघमूल्यं, शेषं सुगम यावत्परिगृह्णीयादिति, श्रुतस्कं०२ अत्र च संसृष्टासंसृष्टसावशेषद्रव्यैरष्टौ भङ्गाः, तेषु चाष्टमो भङ्गः संसृष्टो हस्तः संसृष्टं मात्रं सावशेष द्रव्यमित्येष गच्छ- चूलिका १ निर्गतानामपि कल्पते, शेषास्तु भङ्गा गच्छान्तर्गतानां सूत्रार्थहान्यादिकं कारणमाश्रित्य कल्पन्त इति ॥ अपरा चतुर्थी पिण्डैष०१ पिण्डैषणाऽल्पलेपा नाम, सा यत्पुनरेवमल्पलेपं जानीयात् , तद्यथा-'पृथुकम्' इति भुग्नशाल्याद्यपगततुषं यावत् 'तन्दु- उद्देश:११ लपलम्ब' इति भुग्नशाल्यादितन्दुलानिति, अत्र च पृथुकादिके गृहीतेऽप्यल्पं पश्चात्कर्मादि, तथाऽल्पं पर्यायजातमल्पं तुषादि त्यजनीयमित्येवंप्रकारमल्पलेपम् , अन्यदपि वल्लचनकादि यावत्परिगृह्णीयादिति ॥ अथापरा पञ्चमी पिण्डैषणा-|| वगृहीता नाम, तद्यथा-स भिक्षुर्यावदुपहृतमेव भोक्तुकामस्य भाजनस्थितमेव भोजनजातं ढौकितं जानीयात्, तत्पुनर्भाजनं दर्शयति, तद्यथा-'शरावं' प्रतीतं 'डिण्डिम' कंश (कांस्य) भाजनं 'कोशकं' प्रतीतं, तेन च दात्रा कदाचित् पूर्वमेवोदकेन हस्तो मात्र वा धौतं स्यात् , तथा च निषिद्धं ग्रहणम् , अथ पुनरेवं जानीयाद्वहुपर्यापन्नः-परिणतः पाण्यादिषूदकलेपः, तत एवं ज्ञात्वा यावद् गृह्णीयादिति ॥ अथापरा षष्ठी पिण्डैषणा प्रगृहीता नाम-स्वार्थ परार्थ वा पिठरकादेरुदृत्त्य चट्टकादिनोत्क्षिप्ता परेण च न गृहीता प्रव्रजिताय वा दापिता सा प्रकर्षण गृहीता प्रगृहीता तां तथाभूतां प्राभृतिका 'पात्रपर्यापन्नां वा' पात्रस्थितां 'पाणिपर्यापन्नां वा' हस्तस्थितां वा यावप्रतिगृह्णीयादिति ॥ अथापरा सप्तमी पिण्डै
॥३५७॥ षणा उज्झितधर्मिका नाम, सा च सुगमा ॥ आसु च सप्तस्वपि पिण्डैषणासु संसृष्टाद्यष्टभङ्गका भणनीयाः, नवरं चतु— नानात्वमिति, तस्या अलेपत्वात्संसृष्टाद्यभाव इति ॥ एवं पानैषणा : अपि नेया भङ्गकाश्चायोज्याः, नवरं चतुर्थी