________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३५३॥
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः१०
'सः भिक्षुः 'एकतरः' कश्चित् 'साधारणं' बहूनां सामान्येन दत्तं वाशब्दः पूर्वोत्तरापेक्षया पक्षान्तरद्योतकः पिण्डपातं परिगृह्य तान् साधर्मिकाननापृच्छय यस्मै यस्मै रोचते तस्मै तस्मै स्वमनीषिकया 'खद्धं खद्धंति प्रभूतं प्रभूतं प्रयच्छति,
प्रभूत प्रयच्छति, एवं च मातृस्थानं संस्पृशेत् तस्मान्नैवं कुर्यादिति ॥ असाधारणपिण्डावाप्तावपि यद्विधेयं तदर्शयति___ 'सः' भिक्षुः 'तम् एषणीयं केवलवेषावाप्तं पिण्डमादाय 'तत्र' आचार्याद्यन्तिके गच्छेत् , गत्वा चैवं वदेद्, यथा
आयुष्मन् ! श्रमण ! 'सन्ति' विद्यन्ते मम 'पुरःसंस्तुताः' यदन्तिके प्रव्रजितस्तत्सम्बन्धिनः 'पश्चात्संस्तुता वा' यदन्तिके|ऽधीतं श्रुतं वा तत्सम्बन्धिनो वाऽन्यत्रावासिताः, तांश्च स्वनामग्राहमाह, तद्यथा-'आचार्यः' अनुयोगधरः १ 'उपाध्यायः' अध्यापकः २ प्रवृत्तिर्यथायोगं वैयावृत्त्यादौ साधूनां प्रवर्तकः ३, संयमादौ सीदतां साधूनां स्थिरीकरणात्स्थविरः ४, गच्छाधिपो गणी ५, यस्त्वाचार्यदेशीयो गुर्वादेशात् साधुगणं गृहीत्वा पृथग्विहरति स गणधरः ६, गणावच्छेदकस्तु गच्छकार्यचिन्तकः ७, 'अवियाईति इत्येवमादीनुद्दिश्यैतद्वदेद्-यथाऽहमेतेभ्यो युष्मदनुज्ञया 'खद्धं खद्धंति प्रभूतं प्रभूतं दास्यामि, तदेवं विज्ञप्तः सन् ‘पर आचार्यादिर्यावन्मात्रमनुजानीते तावन्मात्रमेव 'निसृजेत् दद्यात् सर्वानुज्ञया सर्व वा दद्यादिति ॥ किश्च
से एगइओ मणुन्नं भोयणजायं पडिगाहित्ता पंतेण भोयणेण पलिच्छाएइ मा मेयं दाइयं संतं दट्ठणं सयमाइए आयरिए वा जाव गणावच्छेए वा, नो खलु मे कस्सइ किंचि दायव्वं सिया, माइट्ठाणं संफासे, नो एवं करिजा । से वसायाप .
C
॥३५॥