________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥ ३५२ ॥
से भिक्खू वा० बहुपरियावन्नं भोयणजायं पडिगाहित्ता बहवे साहम्मिया तत्थ वसंति संभोइया समणुन्ना अपरिहारिया अदूरगया, तेसिं अणालोइया अणामंते परिद्ववेइ, माइद्वाणं संफासे, नो एवं करेज्जा, से तमायाए तत्थ गच्छज्जा २ से पुव्वामेव आलोइज्जा — आउसंतो समणा ! इमे मे असणे वा पाणे वा ४ बहुपरियावन्ने तं भुंजह णं, से सेवं वयंतं परो वइज्जा — आउसंतो समणा ! आहारमेयं असणं वा ४ जावइयं २ सरइ तावइयं २ भुक्खामो वा पाहामो वा सव्वमेयं परिसडइ सब्वमेयं भुक्खामो वा पाहामो वा ।। ( सू० ५४ )
स भिक्षुर्बशनादि पर्यापन्नं लब्धं परिगृह्य बहुभिर्वा प्रकारैराचार्यग्लानप्राघूर्णकाद्यर्थं दुर्लभद्रव्यादिभिः पर्यापन्नमाहारजातं परिगृह्य तद्बहुत्वाद्भोक्तुमसमर्थः, तत्र च साधर्मिकाः सम्भोगिकाः समनोज्ञा अपरिहारिका एकार्थाश्चालापकाः, |इत्येतेषु सत्स्वदूर गतेषु वा ताननापृच्छय प्रमादितया 'परिष्ठापयेत्' परित्यजेत्, एवं च मातृस्थानं संस्पृशेत् नैवं कुर्यात्, यच्च कुर्यात्तद्दर्शयति-स भिक्षुस्तदधिकमाहारजातं परिगृह्य तत्समीपं गच्छेद्, गत्वा च पूर्वमेव 'आलोकयेत्' दर्शयेत्, एवं च ब्रूयाद् - आयुष्मन् ! श्रमणं ! ममैतदशनादि बहु पर्यापन्नं नाहं भोक्तुमलमतो यूयं किश्चिद् भुङ्गध्वं, तस्य चैवं वदतः स परो ब्रूयाद् - यावन्मात्रं भोक्तुं शक्नुमस्तावन्मात्रं भोक्ष्यामहे पास्यामो वा, सर्वे वा 'परिशटति' उपयुज्यते तत्सर्वं भोक्ष्यामहे पास्याम इति ॥
से भिक्खू वा २ से जं० असणं वा ४ परं समुद्दिस्स बहिया नीहढं जं परेहिं असमणुन्नायं अणिसिद्धं अफा० जाव नो
श्रुतस्कं० २ चूलिका १ पिण्डैष०१ उद्देशः ९
।। ३५२ ॥