SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३५१ ॥ णीमगपिण्डः ५, सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सापिण्डः ६, एवं क्रोधमानमायालो भैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्व पश्चाद्वा दातुः 'कर्णायते भवानि' त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः | १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थं द्रव्यचूर्णादवाप्तवर्णपिण्डः १४, योगाद्-अञ्जनादेरवाटो योगपिण्डः १५, यदनुष्ठानाद्गर्भशातनादेर्मूलमवाप्यते तद्विधानादवाप्तो मूलपिण्डः १६, तदेवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासैषणादोषाश्चामी - “संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव ।” तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः २, तथाssहाररागाद्गाद् भुञ्जानस्य चारित्राङ्गारत्वापादनादङ्गारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाच्चारित्रस्याभिधूमनाजूदोषः ४, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः ५, इत्येवं वेषमात्रावाप्तं प्रासैषणादिदोषरहितः सन्नाहारमाहारयेदिति । अथ कदाचिदेवं स्यात्, सः 'परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, | तच्च कश्चित्साधुस्तूष्णीभावेनोत्प्रेक्षेत, किमर्थम् ?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शयति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद्यथा अमुक ! इति वा भगिनि । इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यतो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ श्रुतस्कं० २ चूलिका १ पिण्डैष० १ उद्देशः ९ ॥ ३५१ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy