SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ इह खलु पाईणं वा ४ सतगत गुणवंतो संजया संवुडा व अपणो अट्ठाए निहियं तं असणा • उक्तोऽष्टमोद्देशकः, साम्प्रतं नवम आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरमनेषणीयपिण्डपरिहार उक्तः, इहापि प्रकारान्तरेण स एवाभिधीयते इह खलु पाईणं वा ४ संतेगइया सड़ा भवंति, गाहावई वा जाव कम्मकरी वा, तेसिं च णं एवं वृत्तपुव्वं भवइ-जे इमे भवंति समणा भगवंता सीलवंतो वयवंतो गुणवंतो संजया संवुडा बंभयारी उवरया मेहुणाओ धम्माओ, नो खलु एएसिं कप्पइ आहाकम्मिए असणे वा ४ भुत्तए वा पायए वा, से जं पुण इमं अम्हूं अप्पणो अट्ठाए निट्टियं तं असणं ४ सव्वमेयं समणाणं निसिरामो, अवियाई वयं पच्छा अप्पणो अट्ठाए असणं वा ४ चेइस्सामो, एयप्पगारं निग्योसं सुच्चा निसम्म तहप्पगारं असणं वा ४ अफासुर्य० ॥ (सू० ४९) 'इहे'ति वाक्योपन्यासे प्रज्ञापकक्षेत्रे वा, खलुशब्दो वाक्यालङ्कारे प्रज्ञापकाद्यपेक्षया प्राच्यादौ दिशि सन्ति-विद्यन्ते पुरुषाः तेषु च केचन श्रद्धालवो भवेयुः ते च श्रावकाः प्रकृतिभद्रका वा, ते चामी-गृहपतिर्यावत्कर्मकरी वेति, तेषां चेदमुक्तपूर्वं भवेत्–'णम्' इति वाक्यालङ्कारे, ये इमे 'श्रमणाः' साधवो भगवन्तः 'शीलवन्तः' अष्टादशशीलाङ्गसहस्रधारिणः 'व्रतवन्तः' रात्रिभोजनविरमणषष्ठपञ्चमहाव्रतधारिणः 'गुणवन्तः' पिण्डविशुद्ध्याधुत्तरगुणोपेताः 'संयताः' इन्द्रियनोइन्द्रियसंयमवन्तः 'संवृताः पिहितास्रवद्वाराः 'ब्रह्मचारिणः' नवविधब्रह्मगुप्तिगुप्ताः 'उपरता मैथुनाद्धर्मात्' अष्टादशविकल्पब्रह्मोपेता(संयता):, एतेषां च न कल्पते आधाकर्मिकमशनादि भोक्तुं पातुं वा, अतो यदात्मार्थमस्माकं निष्ठितं| सिद्धमशनादि ४ तत्सर्वमेतेभ्यः श्रमणेभ्यः 'णिसिरामो'त्ति प्रयच्छामः, अपि च-वयं पश्चादात्मार्थमशनाद्यन्यत् 'चेत
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy