________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः ८
॥३४९॥
SACROSAROGRESS REASNAGAMAR
स्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि, तथा 'तक्कलिमत्थएण वा' तकली-कन्दली 'ण' इति वाक्यालङ्कारे तन्मस्तक-तन्मध्यवर्ती गर्भः, तथा 'कन्दलीशीर्ष' कन्दलीस्तबकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशस्त्रपरिणतं न प्रतिगृह्णीयादि|ति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इधुं वा 'काणगं'ति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकितं' विवणीभूतं, तथा 'सम्मिश्र' स्फुटितत्वक् 'विगदूमियंति वृकैः शृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाद्युपद्रवेण तमासुकं भवतीति सूत्रोपन्यासः, तथा वेत्राग्रं 'कंदलीजसुय'ति कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकारमामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगम, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वक, सा च यावत्सार्दा तावत्सचित्तेति ।। 'अच्छिय'ति वृक्षविशेषफलं 'तेंदुर्य'ति टेम्बरूयं 'वेलुयंति बिल्वं 'कासवनालिय'ति श्रीपर्णीफलं, कुम्भीपकशब्द: प्रत्येकमभिसंबध्यते, एतदुक्तं भवति यदच्छिकफलादिग दावप्राप्तपाककालमेव बलात्पाकमानीयते तदामम्-अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् 'कणिककुण्ड' कणिकाभिर्मिश्राः कुकुसाः। 'कणपूयलिअंति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्कादौ नाभिः संभाव्यते, शेष सुगम यावत्तस्य भिक्षोः 'सामग्य' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोद्देशकः समाप्तः॥
CONGRESCARSAGARAARC
३४९॥