________________
श्रीआचाराङ्गवृत्तिः
(शी०)
॥३४७॥
XHOSABAHORARISAARIS*96436
&च साधुसमीपं दद्यादिति, एवंप्रकारं पानकजातमुद्गमदोपदुष्टं सत्यपि लाभे न प्रतिगृह्णीयात् , ते चामी उद्गमदोषाः
दापा- श्रुतस्कं०२ Pl"आहाकम्मु १ देसिअ २ पूतीकम्मे ३ अ मीसजाए अ४ । ठवणा ५ पाहुडियाए ६ पाओअर ७ कीय ८ पामिच्चे ९ चूलिका १
॥१॥ परियट्टिए १० अभिहडे ११ उन्भिन्ने १२ मालोहडे १३ इअ । अच्छेजे १४ अणिसहे १५ अज्झोअरए १६ अ पिण्डैष०१ असोलसमे ॥२॥" साध्वर्थ यत्सचित्तमचित्तीक्रियते अचित्तं वा यत्पच्यते तदाधाकर्म १। तथाऽऽत्मार्थ यत्पूर्वसिद्धमेव उद्देशः ८ लडुकचूर्णकादि साधुमुद्दिश्य पुनरपि [संत] गुडादिना संस्क्रियते तदुद्देशिकं सामान्येन, विशेषतो विशेषसूत्रादवगन्तव्यमिति २। यदाधाकर्माद्यवयवसम्मिश्रं तत्पूतीकर्म ३ । संयतासंयताद्यर्थमादेरारभ्याहारपरिपाको मिश्रम् ४ । साध्वर्थ क्षीरादिस्थापनं स्थापना भण्यते ५। प्रकरणस्य साध्वर्थमुत्सर्पणमवसर्पणं वा प्राभृतिका ६। साधूनुद्दिश्य गवाक्षादिप्रका-18 शकरणं बहिर्वा प्रकाशे आहारस्य व्यवस्थापन प्रादुष्करणम् ७ । द्रव्यादिविनिमयेन स्वीकृतं क्रीतम् ८ । साध्वर्थ यदन्य-| स्मादुच्छिन्नकं गृह्यते तसामिच्चंति ९ । यच्छाल्योदनादि कोद्रवादिना प्रातिवेशिकगृहे परिवर्त्य ददाति तत्परिवर्तितम् | १० । यद्गृहादेः साधुवसतिमानीय ददाति तदाहृतम् ११ । गोमयाद्युपलिप्तं भाजनमुद्भिद्य ददाति तदुनिन्नम् १२।। मालाद्यवस्थितं निश्रेण्यादिनाऽवतार्य ददाति तन्मालाहृतम् १३ । भृत्यादेराच्छिद्य यद्दीयते तदाच्छेद्यम् १४ । सामान्य श्रेणीभक्तकाद्यकस्य ददतोऽनिसृष्टम् १५ । स्वार्थमधिश्रयणादौ कृते पश्चात्तन्दुलादिप्रसृत्यादिप्रक्षेपादध्यवपूरकः १६ ।।
॥३४७॥ तदेवमन्यतमेनापि दोषेण दुष्टं न प्रतिगृह्णीयादिति ॥ पुनरपि भक्तपानविशेषमधिकृत्याह