________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१
॥३४६॥
RANGARGAMAKAR
जानीयात्, तद्यथा-'तिलोदक' तिलैः केनचित्यकारेण प्रासुकीकृतमुदकम् ४, एवं तुषैर्यवैवों ५-६, तथा 'आचाम्लम्' अवश्यानं ७, 'सौवीरम्' आरनालं ८ 'शुद्धविकटं' प्रासुकमुदकम् ९, अन्यद्वा तथाप्रकारं द्राक्षापानकादि 'पानकजातं' पानीयसामान्यं पूर्वमेव 'अवलोकयेत् पश्येत्, तच्च दृष्ट्वा तं गृहस्थम् अमुक! इति वा भगिनि! इति वेत्यामच्यैवं ब्रूयाद्-यथा दास्यसि मे किञ्चिसानकजातं, स परस्तं भिक्षुमेवं वदम्तमेवं ब्रूयाद्-यथा आयुष्मन् ! श्रमण! त्वमेवेदं पानकजातं स्वकीयेन पतग्रहेण टोप्परिकया कटाहकेन वोत्सिश्च्यापवृत्त्य वा पानकभाण्डकं गृहाण, स एवमभ्यनुज्ञातः स्वयं गृहीयात् परो वा तस्मै दद्यात्, तदेवं लाभे सति प्रतिगृह्णीयादिति । किञ्च
से भिक्खू वा० से जं पुण पाणगं जाणिज्जा-अणंतरहियाए पुढवीए जाव संताणए उद्धटु २ निक्खित्ते सिया, असंजए भिक्खुपडियाए उदउल्लेण वा ससिणिद्धेण वा सकसाएण वा मत्तेण वा सीओदगेण वा संभोइत्ता आहट्ट दलइजा, तहप्पगारं पाणगजायं अफासुयं० एयं खलु सामग्गिय० ॥ (सू०४२)। पिण्डैषणायां सप्तमः २-१-१-७। स भिक्षुर्यदि पुनरेवं जानीयात् तसानकं सचित्तेष्वव्यवहितेषु पृथिवीकायादिषु तथा मर्कटकादिसन्तानके वाऽन्यतो भाजनादुद्धृत्योद्धृत्य 'निक्षिप्तं' व्यवस्थापितं स्यात्, यदिवा स एव 'असंयतः' गृहस्थः 'भिक्षुप्रतिज्ञया भिक्षुमुद्दिश्य 'उदकाट्टैण' गलद्विन्दुना 'सस्निग्धेन' गलदुदकबिन्दुना 'सकषायेण' सचित्तपृथिव्याद्यवयवगुण्ठितेन 'मात्रेण भाजनेन शीतोदकेन वा 'संभोएत्ता' मिश्रयित्वाऽऽहृत्य दद्यात्, तथाप्रकारं पानकजातमप्रासुकमनेषणीयमिति मत्वा न परिगृहीयात्, एतत्तस्य भिक्षोभिक्षुण्या वा 'सामयं समग्रो भिक्षुभाव इति ॥ प्रथमस्य सप्तमः समाप्तः ॥२-१-१-७॥