________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२ चूलिका १ पिण्डैष०१ उद्देशः७
॥३४४॥
| 'अवउन्जित्ति अधोऽवनम्य, तथा 'ओहरिय'त्ति तिरश्चीनो भूत्वाऽऽहारमाहृत्य दद्यात्, तच्च भिक्षुस्तथाप्रकारमधोमालाहृतमितिकृत्वा लाभे सति न प्रतिगृह्णीयादिति ॥ अधुना पृथिवीकायमधिकृत्याह
से मिक्लू वा० से ० असणं वा ४ मट्टियाउलित्तं तहप्पगारं असणं वा ४ लाभे सं०, केवली०, अस्संजए भि० मट्टिओलित्तं असणं वा० उभिदमाणं पुढविकायं समारंमिज्जा तह तेउवाउवणस्सइतसकार्य समारंभिजा, पुणरवि उल्लिंपमाणे पच्छाकम्मं करिज्जा, अह भिक्खूणं पुव्वो० जं तहप्पगारं मट्टिओलित्तं असणं वा लाभे० । से भिक्खू० से जं० असणं वा ४ पुढविकायपइट्ठियं तहप्पगारं असणं वा० अफासुयं० । से मिक्खू० जं. असणं वा ४ आउकायपइट्ठियं चेव, एवं अगणिकायपइट्ठियं लाभे० केवली०, अस्संज० भि० अगणि उस्सक्किय निस्सकिय ओहरिय आह१ दलइज्जा अह भिक्खूणं० जाव नो पडि० ॥ (सू० ३८)॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यदि पुनरेवं जानीयात् , तद्यथा-पिठरकादौ मृत्तिकयाऽवलिप्तमाहारं 'तथाप्रकार'मित्यवलिप्तं केनचित्सरिज्ञाय पश्चात्कर्मभयाच्चतुर्विधमप्याहारं -लाभे सति न प्रतिगृह्णीयात्, किमिति?, यतः केवली ब्रूयात्कर्मादानमेतदिति, तदेव दर्शयति–'असंयतः' गृहस्थो भिक्षुप्रतिज्ञया मृत्तिकोपलिप्तमशनादिकम्-अशनादिभाजन तच्चोद्भिन्दन् पृथिवीकार्य समारभेत, स एव केवल्याह, तथा तेजोवायुवनस्पतित्रसकार्य समारभेत, दत्ते सत्युत्तरकालं पुनरपि शेषरक्षार्थं तद्भाजनमवलिम्पन् पश्चात्कर्म कुर्यात् , अथ भिक्षूणां पूर्वोपदिष्टा एषा प्रतिज्ञा एष हेतुरेतत्कारणमयमुपदेशः यत्तथाप्रकारं मृत्तिकोपलिप्तमशनादिजातं लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्गृहपतिकुलं प्रविष्टः सन्
॥३४४॥