SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ वा अन्नयरं वा कायंसि इंदियजालं लूसिज वा पाणाणि वा ४ अमिहणिज्ज वा वित्तासिज वा लेसिज्ज वा संघसिज वा संघट्टिज वा परियाविज वा किलामिज वा ठाणाओ ठाणं संकामिज वा, तं तहप्पगारं मालोहडं असणं वा ४ लाभे संते नो पडिगाहिज्जा, से मिक्खू वा २ जाव समाणे से जं. असणं वा ४ कुट्ठियाओ वा कोलेज्जाउ वा अस्संजए मिक्खुपडियाए उकुन्जिय अवउज्जिय ओहरिय आह? दलइजा, तहप्पगारं असणं वा ४ लाभे संते नो पडिगाहिजा॥ (सू०३७)।। स भिक्षुर्भिक्षार्थ प्रविष्टः सन् यदि पुनरेवं चतुर्विधमप्याहारं जानीयात् , तद्यथा-'स्कन्धे' अर्द्धप्राकारे 'स्तम्भे वा' शैलदारुमयादौ, तथा मञ्चके वा माले वा प्रासादे वा हर्म्यतले वा अन्यतरस्मिन् वा तथाप्रकारेऽन्तरिक्षजाते स आहारः 'उपनिक्षिप्तः' व्यवस्थापितो भवेत् , तं च तथाप्रकारमाहारं मालाहृतमिति मत्वा लाभे सति न प्रतिगृह्णीयात्, केवली ब्रूयाद्यत आदानमेतदिति , तथाहि-असंयतो भिक्षुप्रतिज्ञया साधुदानार्थ पीठकं वा फलकं वा निश्रेणिं वा उदूखलं वाऽऽहत्य-ऊर्ध्व व्यवस्थाप्यारोहेत् , स तत्रारोहन् प्रचलेद्वा प्रपतेद्वा, स तत्र प्रचलन् प्रपतन् वा हस्तादिकमन्यतरद्धा काये इन्द्रियजातं 'लूसेज्जत्ति विराधयेत् , तथा प्राणिनो भूतानि जीवान् सत्त्वानभिहन्याद्वित्रासयेद्वा लेषयेद्वा-संश्लेष वा कुर्यात् तथा संघर्ष वा कुर्यात् तथा सङ्घट्ट वा कुर्यात्, एतच्च कुस्तान् परितापयेद्वा क्लामयेद्वा स्थानात्स्थानं | सङ्कामयेद्वा, तदेतज्ज्ञात्वा यदाहारजातं तथाप्रकारं मालाहृतं तल्लाभे सति नो प्रतिगृह्णीयादिति ॥ स भिक्षुर्यदि पुनरेवंभूतमाहारं जानीयात् , तद्यथा-'कोष्ठिकातः' मृन्मयकुशूलसंस्थानायाः तथा 'कोलेजाओ'त्ति अधोवृत्तखाताकाराद् असंयतः 'भिक्षुप्रतिज्ञया' साधुमुद्दिश्य कोष्ठिकातः 'उकुजिय'त्ति ऊर्द्धकायमुन्नम्य ततः कुब्जीभूय, तथा कोलेजाओ
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy