________________
श्रीआचा राङ्गवृत्तिः
(शी० )
॥ ३३६ ॥
वदनः प्राघूर्णक भिक्षुभिः सार्द्धं गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रवेक्ष्यामि निष्क्रमिष्यामि चेत्यभिसन्धिना मातृस्थानं संस्पृशेदसावित्यतः प्रतिषिध्यते नैवं कुर्यादिति ॥ कथं च कुर्यादित्याह
'सः' भिक्षुः 'तत्र' ग्रामादौ प्राघूर्णकभिक्षुभिः सार्द्ध 'कालेन' भिक्षावसरेण प्राप्तेन गृहपतिकुलमनुप्रविश्य तत्र 'इत - रेतरेभ्यः' उच्चावचेभ्यः कुलेभ्यः 'सामुदानिकं' भिक्षापिण्डम् 'एषणीयम्' उद्गमादिदोषरहितं 'वैषिकं' केवलवेषावाप्तं धात्रीदूतनिमित्तादिपिण्डदोषरहितं 'पिण्डपातं' भैक्षं प्रतिगृह्य प्राघूर्णकादिभिः सह ग्रासैपणादिदोषरहितमाहारमाहारयेद्, एतत्तस्य भिक्षोः 'सामग्र्यं' संपूर्णो भिक्षुभाव इति ॥ प्रथमस्य चतुर्थः समाप्तः १-१-४ ॥
उक्तश्चतुर्थोद्देशकः, अधुना पञ्चमः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देश के पिण्डग्रहणविधिरभिहितः, अत्रापि स एवाभिधीयत इत्याह
से भिक्खू वा २ जाव पविट्ठे समाणे से जं पुण जाणिज्जा - अग्गपिंड उक्खिप्पमाणं पेहाए अग्गपिंडं निक्खिप्पमाणं पेहाए अग्गपिंडं हीरमाणं पेहाए अग्गपिंडं परिभाइज्जमाणं पेहाए अग्गपिंडं परिभुंजमाणं पेहाए अग्गपिंडं परिट्ठबिजमाणं पेहाए पुरा असिणा वा अबहाराइ वा पुरा जत्थऽण्णे समण० वणीमगा खद्धं २ उवसंकमंति से हंता अहमवि खद्धं २ उबसंकमामि, माइट्ठाणं संफासे, नो एवं करेज्या ॥ ( सू० २५ )
स भिक्षुर्गृहपतिकुलं प्रविष्टः सन् यत्पुनरेवं जानीयात्तद्यथा - अग्रपिण्डो - निष्पन्नस्य शाल्योदनादेराहारस्य देवताद्यर्थ
श्रुतस्कं० २ चूलिका १ पिण्डैष० १ उद्देशः ४
॥ ३३६ ॥