SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ वेसियं पिंडवायं पडिगाहित्ता आहारं आहारिज्जा, एयं खलु तस्स भिक्खुस्स वा भिक्खुणीए वा सामग्गियं० (सू० २४)॥ मारपण्डषणायां चतुर्थ उद्देशकः ॥ तवन्तः, किम्भूतास्ते इत्याह- मायातान् प्रामानुप्रामं दूय भिक्षणशीला भिक्षुका नामैके साधवः केचनैवमुक्तवन्तः, किम्भूतास्ते इत्याह-'समानाः' इति जवाबलपरिक्षीणतयैकस्मिन्नेव क्षेत्रे तिष्ठन्तः, तथा 'वसमानाः' मासकल्पविहारिणः, त एवंभूताः प्राघूर्णकान् समायातान् प्रामानुग्राम दय-14 मानान्-गच्छत एवमूचुः-यथा क्षुल्लकोऽयं ग्रामोऽल्पगृहभिक्षादो वा, तथा संनिरुद्धः-सूतकादिना, नो महानिति पुन चनमादरख्यापनार्थम् , अतिशयेन क्षुल्लक इत्यर्थः, ततो हन्त! इत्यामन्त्रणं, यूयं भवन्तः-पूज्या बहिामेषु भिक्षाचर्यार्थ व्रजतेत्येवं कुर्यात् , यदिवा तत्रैकस्य वास्तव्यस्य भिक्षोः 'पुरःसंस्तुताः' भ्रातृव्यादयः ‘पश्चात्संस्तुताः' श्वशुरकुलसंबद्धाः परिवसन्ति, तान् स्वनामग्राहमाह, तद्यथा-गृहपतिर्वेत्यादि सुगम यावत्तथाप्रकाराणि कुलानि पुरःपश्चात्संस्तुतानि पूर्वमेव भिक्षाकालादहमेतेषु भिक्षार्थ प्रवेक्ष्यामि, अपि चैतेषु स्वजनादिकुलेष्वभिप्रेतं लाभ लप्स्ये, तदेव दर्शयति-'पिण्ड' शाल्योदनादिकं 'लोयम्' इतीन्द्रियानुकूलं रसाधुपेतमुच्यते, तथा क्षीरं वेत्यादि सुगम यावत्सिहरिणीं वेति, नवरं मद्यमांसे छेदसूत्राभिप्रायेण व्याख्येये, अथवा कश्चिदतिप्रमादावष्टब्धोऽत्यन्तगृभुतया मधुमद्यमांसान्यप्याश्रयेदतस्तदुपादानं, 'फाणिय'ति उदकेन द्रवीकृतो गुडः कथितोऽकथितो वा शिखरिणी मार्जिता, तल्लब्धं पूर्वमेव भुक्त्वा पेयं |च पीत्वा पतदहं संलिह्य निरवयवं कृत्वा संमृज्य च वस्त्रादिनाऽऽर्द्रतामपनीय ततः पश्चादुपागते भिक्षाकालेऽविकृत
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy