SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ HAHAHAHAHAHAHAHAHIS पर्यालोच्य गीतार्थो गृह्णीयादिति ॥ अथ कथञ्चिदनाभोगात्संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाहसे आहच्चे'त्यादि स च भावभिक्षुः 'आहच्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगात्प्रतिगृह्णीयात् , स8| चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, 'तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपकामेत्र गच्छेत् , तं 'अपक्रम्य, गत्वेति । यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयतिअथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्ग्रहार्थः, वाशब्दो विकल्पार्थः शून्यगृहाद्युपसनहार्थो वा, तद्विशिनष्टि–'अल्पाण्डे' अल्पशब्दोऽभाववचनः, अपगताण्ड इत्यर्थः, एवमल्पबीजेऽल्पहरिते 'अल्पाव|| श्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा 'अल्पोत्तिङ्गपनकदगमृत्तिकामर्कटसन्तानके' तत्रोत्तिङ्गस्तृणा प्रउदकबिन्दुः, [ भुञ्जीतेत्युत्तरक्रियया सम्बन्धः] पनकः-उल्लीविशेषः, उदकप्रधाना मृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषां सन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमंण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्तं तद् 'विविच्य विविच्य' त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिःशेषतामाह, 'उन्मिश्रं वा' आगामुकसत्त्वसंवलितं सक्तुकादि ततः प्राणिनः 'विशोध्य विशोध्य' अपनीयापनीय 'ततः' तद-६ नन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेद्धा रागद्वेषविप्रमुक्तः सन्निति, उक्तश्च-"बायालीसेसणसंकडंमि द्वाचत्वारिंशदेषणासंकटे गहने जीव ! नैव छलितः । इदानीं यथा न छल्यसे भुजन् रागद्वेषाभ्यां (तथा प्रवर्तख ) ॥१॥ रागेण साकार द्वेषेण सधूमकं | विजानीहि । रागद्वेषविमुक्तो भुञ्जीत वा निर्जराप्रेक्षी ॥२॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy