SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ TAGRAAKRA+AASA "तथा' तेन प्रकारेण मूलोत्तरगुणधारित्वेन विमुक्तो-निसङ्गस्तस्य, तथा परिज्ञानं परिज्ञा-सदसद्विवेकस्तया चरितुं शीलमस्येति परिज्ञाचारी-ज्ञानपूर्व क्रियाकारी तस्य, तथा धृतिः-समाधानं संयमे यस्य स धृतिमांस्तस्य, दुःखम्-असातावेदनीयोदयस्तदुदीर्ण सम्यक् क्षमते-सहते, न वैक्लव्यमुपयाति नापि तदुपशमार्थ वैद्यौषधादि मृगयते, तदेवंभूतस्य भिक्षोः पूर्वोपात्तं कर्म 'विशुध्यति' अपगच्छति, किमिव ?-'समीरितं' प्रेरितं रूप्यमलमिव 'ज्योतिषा' अग्निनेति ॥ ८॥ | साम्प्रतं भुजङ्गत्वगधिकारमधिकृत्याह- . | से हु परिनासमयंमि वट्टई, निराससे उवरय मेहुणा चरे । भुयंगमे जुन्नतयं जहा चए, विमुच्चई से दुहसिन्ज माहणे ॥ ९॥ | __ 'स' एवंभूतो भिक्षुर्मूलोत्तरगुणधारी पिण्डैषणाध्ययनार्थकरणोद्युक्तः परिज्ञासमये वर्तते, तथा 'निराशंसः' ऐहिकामुष्मिकाशंसारहितः, तथा मैथुनादुपरतः, अस्य चोपलक्षणत्वादपरमहाव्रतधारी च, तदेवंभूतो भिक्षुर्यथा सर्पः कञ्चुकं| मुक्त्वा निर्मलीभवति एवं मुनिरपि 'दुःखशय्यातः' नरकादिभवाद्विमुच्यत इति ॥ ९॥ समुद्राधिकारमधिकृत्याह जमाहु ओहं सलिलं अपारयं, महासमुई व भुयाहि .दुत्तरं । अहे य णं परिजाणाहि पंडिए, से हु मुणी अंतकडेत्ति वुच्चई ॥ १० ॥ __'यं' संसारं समुद्रमिव भुजाभ्यां दुस्तरमाहुस्तीर्थकृतो गणधरादयो वा, किम्भूतम् ?-ओघरूपं, तत्र द्रव्यौघः सलिलप्रवेशो भावीघ आस्रवद्वाराणि, तथा मिथ्यात्वाद्यपारसलिलम्, इत्यनेनास्य दुस्तरत्वे कारणमुक्तम् , अथैनं संसारसमुद्रमेवंभूतं ज्ञपरिज्ञया सम्यग् जानीहि प्रत्याख्यानपरिज्ञया तु परिहर 'पण्डितः' सदसद्विवेकज्ञः, स च मुनिरेवंभूतः कर्मणोऽन्तकृदुच्यते ॥१०॥ अपिच
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy