________________
श्रीआचाराङ्गवृत्तिः (शी०)
श्रुतस्कं०२
चूलिका २ | परक्रि०६
॥४१६॥
ANSAAMANAKAMAK
रामंसि वा उजाणंसि वा नीहरित्ता वा पविसित्ता वा पायाई आमजिज वा प० नो तं साइए ॥ एवं नेयव्वा अन्नमन्नकिरियावि ॥ (सू० १७२) पर-आत्मनो व्यतिरिक्तोऽन्यस्तस्य क्रिया-चेष्टा कायव्यापाररूपा तां परक्रियाम् 'आध्यात्मिकीम्' आत्मनि क्रियमाणां, पुनरपि विशिनष्टि-'सांश्लेषिकी' कर्मसंश्लेषजननीं 'नो' नैव 'आस्वादयेत्' अभिलषेत्, मनसा न तत्राभिलाषं कुर्यादित्यर्थः, तथा न तां परक्रियां 'नियमयेत्' कारयेद्वाचा, नापि कायेनेति । तां च परक्रियां विशेषतो दर्शयति
-'से' तस्य साधोर्निष्प्रतिकर्मशरीरस्य सः 'परः' अन्यो धर्मश्रद्धया पादौ रजोऽवगुण्ठितौ आमृज्यात् कर्पटादिना, वाशब्दस्तूत्तरपक्षापेक्षः, तन्नास्वादयेन्नापि नियमयेदिति, एवं स साधुस्तं परं पादौ संवाधयन्तं मर्दयन्तं वा स्पर्शयन्तंरञ्जयन्तं, तथा तैलादिना म्रक्षयन्तमभ्यञ्जयन्तं वा, तथा लोध्रादिना उद्वर्तनादि कुर्वन्तं, तथा शीतोदकादिना उच्छोलनादि कुर्वाणं, तथाऽन्यतरेण सुगन्धिद्रव्येणालिम्पन्तं, तथा विशिष्टधूपेन धूपयन्तं, तथा पादात्कण्टकादिकमुद्धरन्तम् , एवं शोणितादिकं निस्सारयन्तं 'नास्वादयेत्' मनसा नाभिलषेत् नापि नियमयेत्-कारयेद्वाचा कायेनेति ॥ शेषानि कायव्रणगतादीनि आरामप्रवेशनिष्क्रमणप्रमार्जनसूत्रं यावदुत्तानार्थानि ॥ एवममुमेवार्थमुत्तरसप्तकेऽपि तुल्यत्वात्सङ्ग्रेपरुचिः सूत्रकारोऽतिदिशति-'एवम्' इति याः पूर्वोक्ताः क्रिया-रजःप्रमार्जनादिकास्ताः 'अन्योऽन्यं' परस्परतः साधुना कृतप्रतिक्रियया न विधेया इत्येवं नेतव्योऽन्योऽन्यक्रियासप्तैकक इति ॥ किञ्च- -
से सिया परो सुद्धेणं असुद्धेणं वा वइबलेण वा तेइच्छं आउट्टे से० असुद्धेणं वइबलेणं तेइच्छं आउट्टे से सिया परो गिलाणस्स
॥४१६॥