________________
श्रीआचाराङ्गवृत्तिः (शी०)
॥ ४०८ ॥
ख्यायत इति, भावनिषीथं नोआगमत इदमेवाध्ययनम्, आगमैकदेशत्वात्, गतो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रानुगमे सूत्रमुच्चारणीयं तच्चेदम्
से मिक्खू वा २ अमिकं० निसीहियं फासूयं गमणाए, से पुण निसीहियं जाणिज्जा—सअंडं तह० अफा० नो चेइस्सामि ॥ से भिक्खू० अभिकंखेज्जा निसीहियं गमणाए, से पुण नि० अप्पपाणं अप्पबीयं जाव संताणयं तह० निसीहियं फासूयं चेइस्सामि, एवं सिज्जागमेणं नेयव्वं जाव उदयप्पसूयाई । जे तत्थ दुवग्गा तिवग्गा चडवग्गा पंचवग्गा वा अभिसंधारिंति निसीहियं गमणाए ते नो अन्नमन्नस्स कार्य आलिंगिज्ज वा विलिंगिज वा चुंबिज्ज वा दंतेहिं वा नहेहिं वा अच्छिदिज वा वुच्छि०, एयं खलु० जं सव्वद्वेहिं सहिए समिए सया जएज्जा, सेयमिणं मनिज्जासि तिवेमि । (सू० १६४ ) निसी - हियासत्तिकयं । २-२-९ ॥
स भावभिक्षुर्यदि वसतेरुपहताया अन्यत्र निपीधिकां- स्वाध्यायभूमिं गन्तुमभिकाङ्गेत्, तां च यदि साण्डा यावत्सस - न्तानकां जानीयात्ततोऽप्रासुकत्वान्न परिगृह्णीयादिति ॥ किञ्च स भिक्षुरल्पाण्डादिकां गृह्णीयादिति ॥ एवमन्यान्यपि सूत्राणि शय्यावन्नेयानि यावद् यत्रोदकप्रसूतानि कन्दादीनि स्युस्तां न गृह्णीयादिति ॥ तत्र गतानां विधिमधिकृत्याहये तत्र साधवो नैषेधिकाभूमौ द्वित्राद्या गच्छेयुस्ते नान्योऽन्यस्य 'कार्य' शरीरमालिङ्गयेयुः परस्परं गात्रसंस्पर्श न कुर्युरित्यर्थः, नापि 'विविधम्' अनेकप्रकारं यथा मोहोदयो भवति तथा विलिङ्गेयुरिति, तथा कन्दर्पप्रधाना वक्रसंयोगादिकाः क्रिया न कुर्युरिति एतत्तस्य भिक्षोः सामग्र्यं यदसौ 'सर्वार्थैः' अशेषप्रयोजनैरामुष्मिकैः सहितः' समन्वितः तथा 'स
श्रुतस्कं० २ चूलिका २ निषि० २
॥ ४०८ ॥