________________
आ. सू. ६७
हिय २ पमज्जिय २ तओ सं० वत्थं आयाविज्ज वा पया०, एयं खलु सया जइज्जासि ( सू० १४८ ) तिबेमि ॥ २-१-५-१ ।। वत्थेसणस्स पढमो उद्देसो समन्तो ॥
- स भिक्षुरव्यवहितायां भूमौ वस्त्रं नातापयेदिति ॥ किञ्च स भिक्षुर्यद्यभिकाङ्क्षयेद्वस्त्र मातापयितुं ततः स्थूणादौ चलाचले स्थूणादिवस्त्रपतनभयान्नातापयेत्, तत्र गिहेलुकः- उम्बरः 'उस्यालं' उदूखलं 'कामजलं' स्नानपीठमिति ॥ स भिक्षुर्भित्तिशिलादौ पतनादिभयाद्वस्त्रं नातापयेदिति ॥ स भिक्षुः स्कन्धमश्च कप्रासादादावन्तरिक्षजाते वस्त्रं पतनादिभयादेव नातापयेदिति ॥ यथा चातापयेत्तथा चाह-स भिक्षुस्तद्वस्त्रमादाय स्थण्डिलादि प्रत्युपेक्ष्य चक्षुषा प्रमृज्य च रजोहरणादिना तत आतापनादिकं कुर्यादिति, एतत्तस्य भिक्षोः सामग्र्यमिति ॥ पञ्चमस्य प्रथमोद्देशकः समाप्तः ॥ २-१-५-१ ॥
उक्तः प्रथमोद्देशकः, साम्प्रतं द्वितीयः समारभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके वस्त्रग्रहणविधिरभिहितस्तदनन्तरं धरणविधिरभिधीयते इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् -
से मिक्खू वा० आहेसणिज्जाएं वत्थाइं जाइज्जा अहापरिग्गहियाई बत्थाइं धारिला नो धोइला नो रएजा नो धोयरत्ताई बधाई धारिज्जा अपलिउंचमाणो गामंतरेसु० ओमचेलिए, एयं खलु वत्थधारिस्स सामग्गियं ॥ से मि० गाहाबइकुलं पविसिउकामे " सव्वं चीवरमायाए गाहाबइकुलं निक्खमिका वा पविसिका वा, एवं बहिय बिहारभूमिं वा बियारभूमिं वा गामाणुगामं वा