________________
खोमियं वा तूलकडं वा, तहप्पनारं वत्थं वा जे निग्गंथे तरुणे जुगवं बलवं अप्पायंके थिरसंघयणे से एग वत्थं धारिजा नो बीयं, जा निगंथी सा चत्तारिसंघाडीओ धारिजा, एगं दुह्त्ववित्थारं दो तिहत्यवित्थाराओ एग चउहत्यवित्थारं,
तहप्पगारेहिं वत्थेहिं असंधिजमाणेहिं, अह पच्छा एगमेगं संसिविजा ।। (सू० १४१) | स भिक्षुरभिकालेद्धस्त्रमन्वेष्टुं तत्र यत्पुनरेवंभूतं वस्त्रं जानीयात् , तद्यथा-'जंगिय'ति जङ्गमोष्ट्राचूर्णानिष्पन्नं, तथा|5||
भंगिय'ति नानाभङ्गिकविकलेन्द्रियलालानिष्पन्नं, तथा 'साणयंति सणवल्कलनिष्पन्नं 'पोत्तगं'ति ताब्यादिपत्रसङ्घातनिप्पन्नं 'खोमिय'ति कार्पासिकं 'तूलकडंति अर्कादितूलनिष्पन्नम् , एवं तथाप्रकारमन्यदपि वस्त्रं धारयेदित्युत्तरेण सम्बन्धः । येन साधुना यावन्ति धारणीयानि तदर्शयति-तत्र यस्तरुणो निर्ग्रन्थः-साधुर्योवने वर्त्तते 'बलवान्' समर्थः 'अल्पातङ्कः' अरोगी 'स्थिरसंहननः' दृढकायो दृढधृतिश्च, स एवंभूतः साधुरेकं 'वस्त्रं' प्रावरणं त्वक्त्राणार्थ धारयेत् नो द्वितीयमिति, यदपरमाचार्यादिकृते विभर्ति तस्य स्वयं परिभोगं न कुरुते, यः पुनर्वालो दुर्बलो वृद्धो वा यावदल्पसंहननः स यथासमाधि व्यादिकमपि धारयेदिति, जिनकल्पिकस्तु यथाप्रतिज्ञमेव धारयेत् न तत्रापवादोऽस्ति । या पुनर्निर्ग्रन्थी सा चतस्रः संघाटिका धारयेत्, तद्यथा-एकां द्विहस्तपरिमाणां यां प्रतिश्रये तिष्ठन्ती प्रावृणोति, द्वे त्रिहस्तपरिमाणे, तत्रैकामुज्ज्वलां भिक्षाकाले प्रावृणोति, अपरां बहिभूमिगमनावसर इति, तथाऽपरा चतुहस्तविस्तरा समवसरणादी सर्वशरीरप्रच्छादिकां प्रावृणोति, तस्याश्च यथाकृताया अलाभे अथ पश्चादेकमेकेन सार्द्ध सीव्येदिति ॥ किञ्च
से भि० परं अद्धजोयणमेराए वत्थपडिया० नो अभिसंधारिज गमणाए ।। (सू० १४२)