SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ आ. सू. ६६ इया इ वा लाइमा इ वा भज्जिमा इ वा बहुखज्जा इ वा, एयपगा० नो भासिज्जा ॥ से० बहु० पेहाए तहावि एवं वइज्जा, तं०—रूढा इ वा बहुसंभूया इ वा थिरा इ वा ऊसढा इ वा गब्भिया इ वा पसूया इ वा ससारा इवा, एयप्पगारं भासं असावज्जं जाव भासि० ॥ ( सू० १३८ ) स भिक्षुर्गवादिकं ‘परिवृद्धकार्य' पुष्टकायं प्रेक्ष्य नैतद्वदेत्, तद्यथा-स्थूलोऽयं प्रमेदुरोऽयं तथा वृत्तस्तथा वध्यो वहनयोग्यो वा, एवं पचनयोग्यो देवतादेः पातनयोग्यो वेति, एवमादिकामन्यामप्येवंप्रकारां 'सावद्यां भाषां नो भाषेतेति ॥ भाषणविधिमाह-स भिक्षुर्गवादिकं परिवृद्धकार्य प्रेक्ष्यैवं वदेत्, तद्यथा- परिवृद्धकायोऽयमित्यादि सुगममिति ॥ तथा-स भिक्षुः 'विरूपरूपाः' नानाप्रकारा गाः समीक्ष्य नैतद्वदेत्, तद्यथा- दोहनयोग्या एता गावो दोहनकालो वा वर्त्तते तथा 'दम्यः' दमनयोग्योऽयं 'गोरहकः' कल्होटकः, एवं वाहनयोग्यो रथयोग्यो वेति, एवंप्रकारां सावद्यां भाषां नो भाषेतेति ॥ सति कारणे भाषणविधिमाह-स भिक्षुर्नानाप्रकारा गाः प्रेक्ष्य प्रयोजने सत्येवं ब्रूयात्, तद्यथा- 'जुवंगवे'त्ति युवाऽयं गौः धेनुरिति वा रसवतीति वा, (ह्रस्वः महान् महाव्ययो वा) एवं संवहन इति, एवंप्रकारामसावद्यां भाषां भाषेतेति ॥ किञ्च स भिक्षु| रुद्यानादिकं गत्वा महतो वृक्षान् प्रेक्ष्य नैवं वदेत्, तद्यथा- प्रासादादियोग्या अमी वृक्षा इति, एवमादिकां सावद्यां भाषां | नो भाषेतेति ॥ यत्तु वदेत्तदाह-स भिक्षुस्तथैवोद्यानादिकं गत्वैवं वदेत्, तद्यथा - 'जातिमन्तः' सुजातय इति, एवमादिकां भाषामसावद्यां संयत एव भाषेतेति ॥ किञ्च स भिक्षुर्बहुसंभूतानि वृक्षफलानि प्रेक्ष्य नैवं वदेत्, तद्यथा - एतानि फलानि 'पक्कानि ' पाकप्राप्तानि, तथा 'पाकखाद्यानि' बद्धास्थीनि गत्तप्रक्षेपकोद्रवपलालादिना विपच्य भक्षणयोग्यानीति, तथा
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy