SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३८७ ॥ सोऽहं यदेतद्ववीमि तत्सर्वैरेव तीर्थकृद्भिरतीतानागतवर्त्तमानैर्भाषितं भाष्यते भाषिष्यते च, अपि चैतानि सर्वाण्यप्येतानि भाषाद्रव्याण्यचित्तानि च वर्णगन्धरसस्पर्शवन्ति चयोपचयिकानि विविधपरिणामधर्माणि भवन्तीति, एवमाख्यातं तीर्थकृद्भिरिति, अत्र च वर्णादिमत्त्वाविष्करणेन शब्दस्य मूर्त्तत्वमावेदितं, न ह्यमूर्त्तस्याकाशादेर्वर्णादयः संभवन्ति तथा चयोपचयधर्माणीत्यनेन तु शब्दस्यानित्यत्वमाविष्कृतं, विचित्रपरिणामत्वाच्छन्दद्रव्याणामिति ॥ साम्प्रतं शब्दस्य कृतकत्वाविष्करणायाह सेभिक्खू वा ० से जं पुण जाणिज्जा पुवि भासा अभासा भासिजमाणी भासा भासा भासासमयवीइकंता च णं भासिया भासा अभासा || से भिक्खू वा० से जं पुण जाणिज्जा जा य भासा सच्चा १ जा य भासा मोसा २ जा य भासा सच्चामोसा २ जा य भासा असच्चाऽमोसा ४, तहप्पगारं भासं सावज्जं सकिरियं कक्कसं कडुयं निठुरं फरुसं अण्यकरिं छेयणकरिं भेयणकरिं परियावणकरिं उद्दवणकरिं भूओवघाइयं अभिकंख नो भासिज्जा ॥ से भिक्खू वा भिक्खुणी वा से पुण जाणिज्जा, जाय भासा सच्चा सुहुमा जा य भासा असच्चामोसा तहप्पगारं भासं असावज्जं जाव अभूओवघाइयं अभिकं भासं भासिज्जा ॥ ( सू० १३३ ) स भिक्षुरेवंभूतं शब्दं जानीयात्, तद्यथा-भाषाद्रव्यवर्गणानां वाग्योगनिस्सरणात् 'पूर्व' प्रागभाषा 'भाष्यमाणैव' वागयोगेन निसृज्यमानैव भाषा, भाषाद्रव्याणि भाषा भवति, तदनेन ताल्वोष्ठादिव्यापारेण प्रागसतः शब्दस्य निष्पादनात्स्फुटमेव कृतकत्वमावेदितं, मृत्पिण्डे दण्डचक्रादिनेव घटस्येति सा वोच्चरितप्रध्वंसित्वाच्छन्दानां भाषणोत्तरकालमप्य श्रुतस्कं० २ चूलिका १ भाषा० ४ उद्देशः १ ॥ ३८७ ॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy