SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ वचनविधिगतां दर्शयति-तद्यथे'त्ययमुपप्रदर्शनार्थः, एकवचनं वृक्षः १, द्विवचनं वृक्षौ २, बहुवचनं वृक्षा इति ३, स्त्रीवचनं वीणा कन्या इत्यादि ४, पुंवचनं घटः पट इत्यादि ५, नपुंसकवचनं पीठं देवकुलमित्यादि ६, अध्यात्मवचनम् , आत्मन्यधि अध्यात्म-हृदयगतं तत्परिहारेणान्यद्भणिष्यतस्तदेव सहसा पतितम् ७, 'उपनीतवचन' प्रशंसावचनं यथा रूपवती स्त्री ८, तद्विपर्ययेणापनीतवचनं यथेयं रूपहीनेति ९, उपनीतापनीतवचनं' कश्चिद् गुणः प्रशस्यः कश्चिन्निन्द्यो, यथा-रूपवतीयं स्त्री किन्त्वसद्वृत्तेति १०, 'अपनीतोपनीतवचनम्' अरूपवती स्त्री किन्तु सद्वृत्तेति ११, 'अतीतवचनं कृतवान् १२ 'वर्तमानवचनं करोति १३ 'अनागतवचनं' करिष्यति १४ 'प्रत्यक्षवचनम् एष देवदत्तः १५, 'परोक्षवचनं' स देवदत्तः १६, इत्येतानि षोडश वचनानि, अमीषां स भिक्षुरेकार्थविवक्षायामेकवचनमेव ब्रूयाद् यावत्परोक्षवचनविवक्षायां परोक्षवचनमेव ब्रूयादिति । तथा ख्यादिके दृष्टे सति ख्येवैषा पुरुषो वा नपुंसकं वा, एवमेवैतदन्यद्वैतत् , एवम् 'अनुविचिन्त्य' निश्चित्य निष्ठाभाषी सन् समित्या समतया संयत एव भाषां भाषेत, तथा 'इत्येतानि' पूर्वोकानि भाषागतानि वक्ष्यमाणानि वा 'आयतनानि दोषस्थानानि 'उपातिक्रम्य' अतिलकच भाषां भाषेत । अथ स भिक्षुर्जानीयात् 'चत्वारि भाषाजातानि' चतम्रो भाषाः, तद्यथा-सत्यमेकं प्रथम भाषाजातं यथार्थम्-अवितथं, तद्यथागौौरेवाभ्योऽश्व एवेति १, एतद्विपरीता तु मृषा द्वितीया, यथा गौरश्वोऽश्वो गौरिति २, तृतीया भाषा सत्यामृषेति, यत्र किश्चित्सत्यं किश्चिन्मृषेति, यथाऽश्वेन यान्तं देवदत्तमुष्टेण. यातीत्यभिदधाति ३, चतुर्थी तु भाषा योच्यमाना न सत्या नापि मृषा नापि सत्यामृषा आमन्त्रणाज्ञापनादिका साऽनासत्याऽमृषेति ४॥ स्वमनीषिकापरिहारार्थमाह
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy