________________
वदेदिति ॥ अपि च-स भिक्षुर्ग्रामान्तरं गच्छन् केनचित्संमुखीनेन प्रातिपथिकेन पृष्टः सन् उदकप्रसूतं कन्दमूलादि नैवाचक्षीत, जानन्नपि नैव जानामीति वा ब्रूयादिति ॥ एवं यवसासनादिसूत्रमपि नेयमिति ॥ तथा कियद्दूरे ग्रामादिप्रश्नसूत्रमपि नेयमिति ॥ एवं कियान् पन्था ? इत्येतदपीति ॥ किञ्च -
से मिक्खू० गा० दू० अंतरा से गोणं वियालं पडिवहे पेहाए जाव चित्तचिल्लडं वियालं प० पेहाए नो तेसिं भीओ उम्मग्गेणं गच्छा नो मग्गाओ उम्मग्गं संकमिज्जा नो गहणं वा वणं वा दुग्गं वा अणुपविसिजा नो रुक्खंसि दूरुहिजा नो महइमहालयंसि उदयंसि कायं विउसिज्जा नो वार्ड वा सरणं वा सेणं वा सत्थं वा कंखिज्जा अप्पुस्सुए जाव समाहीए तओ संजयामेव गामाणुगामं दूइज्जिज्जा | से भिक्खू० गामाणुगामं दूइजमाणे अंतरा से विहं सिया, से जं पुण विहं जाणिज्जा इमंसि खलु विहंसि बहवे आमोसगा उवगरणपडियाए संपिंडिया गच्छिज्जा, नो तेसिं भीओ उम्मग्गेण गच्छिज्जा जाव समाहीए तओ संजयामेव गामाणुगामं दूइजेजा ।। ( सू० १३० )
भिक्षुर्ग्रामान्तरं गच्छन् यद्यन्तराले "गां' वृषभं 'व्यालं' दर्पितं प्रतिपथे पश्येत्, तथा सिंहं व्याघ्रं यावच्चित्रकं तदपत्यं वा व्यालं क्रूरं दृष्ट्वा च तद्भयान्नैवोन्मार्गेण गच्छेत्, न च गहनादिकमनुप्रविशेत्, नापि वृक्षादिकमारोहेत्, न चोदकं प्रविशेत्, नापि शरणमभिकाङ्गेत्, अपि त्वल्पोत्सुकोऽविमनस्कः संयत एव गच्छेत्, एतच्च गच्छनिर्गतैर्विधेयं, गच्छान्तर्गतास्तु व्यालादिकं परिहृत्यपीति ॥ किञ्च – 'से' तस्य भिक्षोर्ग्रामान्तराले गच्छतः 'विहं'ति अटवीप्रायो दीर्घोऽध्वा भवेत्, तत्र च 'आमोषकाः ' स्तेनाः 'उपकरणप्रतिज्ञया' उपकरणार्थिनः समागच्छेयुः, न तद्भयादुन्मार्गगमनादि कुर्यादिति ॥