________________
से भिक्खू वा० गामाणुगामं दूइजमाणे पुरओ जुंगमायाए पेहमाणे दट्ठूण तसे पाणे उद्धट्टु पादं रीइज्जा साहद्दु पायं रीइज्जा वितिरिच्छं वा कट्टु पायं रीइज्जा, सइ परकमे संजयामेव परिकमिज्जा नो उज्जुयं गच्छिज्जा, तओ संजयामेव गामाणुगामं दूइज्जिज्जा ॥ से भिक्खू वा० गामा० दूइज्जमाणे अंतरा से पाणाणि वा बी० हरि० उदए वा मट्टिआ वा अविद्धत्थे सइ परकमे जाव नो उज्जुयं गच्छिज्जा, तओ संजया ० गामा० दूइज्जिज्जा ॥ ( सू० ११४ )
स भिक्षुर्यावद् ग्रामान्तरं गच्छन् 'पुरतः' अग्रतः 'युगमात्रं ' चतुर्हस्तप्रमाणं शकटोर्द्धिसंस्थितं भूभागं पश्यन् गच्छेत्, तत्र च पथि दृष्ट्वा 'त्रसान् प्राणिनः' पतङ्गादीन् 'उद्धड्ड' त्ति पादमुद्धृत्त्याग्रतलेन पादपातप्रदेशं वाऽतिक्रम्य गच्छेत्, एवं | संहृत्य - शरीराभिमुखमाक्षिप्य पादं विवक्षितपादपातप्रदेशादारत एव विन्यस्य उत्क्षिप्य वाऽग्रभागं पाष्णिकया गच्छेत्, | तथा तिरश्चीनं वा पादं कृत्वा गच्छेत्, अयं चान्यमार्गाभावे विधिः, सति त्वन्यस्मिन् पराक्रमे - गमनमार्गे संयतः संस्तेनैव. 'पराक्रमेत्' गच्छेत् न ऋजुनेत्येवं ग्रामान्तरं गच्छेत् सर्वोपसंहारोऽयमिति ॥ से इत्यादि, उत्तानार्थम् ॥ अपि च
से भिक्खू वा० गामा० दूइजमाणे अंतरा से विरूवरूवाणि पञ्चतिगाणि दसुगाययाणि मिलक्खूणि अणायरियाणि दुसनप्पाणि दुप्पन्न वणिज्जाणि अकालपडिबोहीणि अकालपरिभोईणि सइ लाढे विहाराए संथरमाणेहिं जाणवएहिं नो विहाखडियाए पवज्जिज्जा गमणाए, केवली बूया आयाणमेयं, तेणं बाला अयं तेणे अयं उवचरए अयं ततो आगएत्तिकट्टु तं भिक्खु अक्कोसिज्ज वा जाव उद्दविज्ज वा वत्थं प० कं० पाय० अच्छिदिज्ज वा भिंदिज्ज वा अवहरिज्ज वा परिट्ठविज
9