________________
श्रीआचाराङ्गवृत्तिः (शी०) ॥३६५॥
श्रुतस्कं०२ चूलिका शय्यैष०२ उद्देशः २
तस्यापहतमन्यस्य वा, अयं स स्तेनस्तदुपचारको वा, अयं गृहीतायुधोऽयं हन्ता अयमत्राकार्षीदित्यादि न वदनीयं, यत एवं तस्य चौरस्य व्यापत्तिः स्यात् , स वा प्रद्विष्टस्तं साधुं व्यापादयेदित्यादिदोषाः, अभणने च तमेव तपस्विनं भिक्षमस्तेनं स्तेनमित्याशङ्केतेति, शेषं पूर्ववदिति ॥ पुनरपि वसतिदोषाभिधित्सयाऽऽह
से मिक्खू वा से जं० तणपुंजेसु वा पलालपुंजेसु वा सअंडे जाव ससंताणए तहप्पगारे उ० नो ठाणं वा० ॥ ३ ॥ से भिक्खू वा० से जं० तणपुं० पलाल, अप्पंडे जाव चेइज्जा ।। (सू० ७६) सगमम, एतद्विपरीतसूत्रमपि सुगम, नवरमल्पशब्दोऽभाववाची ॥ साम्प्रतं वसतिपरित्यागमहेशकार्थाधिकारनिर्दिष्टमधिकृत्याह
से आगंतारेसु आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अभिक्खणं साहम्मिएहिं उवयमाणेहिं नो उबइजा ॥ (सू० ७७) | यत्र ग्रामादेर्बहिरागत्यागत्य पथिकादयस्तिष्ठन्ति तान्यागन्तागाराणि, तथाऽऽराममध्यगृहाण्यारामागाराणि, पर्यावसथा-मठाः, इत्यादिषु प्रतिश्रयेषु 'अभीक्ष्णम्" अनवरतं 'साधर्मिकैः' अपरसाधुभिः 'अवपतद्भिः' आगच्छद्भिर्मासादिविहारिभिश्चर्दितेषु 'नावपतेत्' नागच्छेत्-तेषु मासकल्पादि न कुर्यादिति ॥ साम्प्रतं कालातिक्रान्तवसतिदोषमाह
से आगंतारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुजो संवसंति, अयमाउसो !
कालाइक्कतकिरियावि भवति १ ॥ (सू० ७८) तेष्वागन्तागारादिषु ये भगवन्तः 'ऋतुबद्धम्' इति शीतोष्णकालयोर्मासकल्पम् 'उपनीय' अतिवाह्य वर्षासु बा चतु
॥३६५॥