SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ शय्यैष०२ उद्देशः १ ॥३५९॥ सके. मिश्राऽपि तत्रैवार्द्धपरिणते, अथवा सचित्तामुत्तरगाथया स्वत एवं नियुक्तिकृद् भावयिष्यति । 'क्षेत्र'मिति तु क्षेत्र- शय्या, सा च यत्र ग्रामादिके क्षेत्रे क्रियते, कालशय्या तु या यस्मिन्नृतुवद्धादिके काले क्रियते ॥ तत्र सचित्तद्रव्यशय्यो- दाहरणार्थमाह उक्कलकलिंग गोअम वग्गुमई चेव होइ नायब्वा । एयं तु उदाहरणं नायव्वं दवसिजाए ॥३०॥ __ अस्या भावार्थः कथानकादवसेयः, तच्चेदम्-एकस्यामटव्यां द्वौ भ्रातरावुत्कलकलिङ्गाभिधानौ विषमप्रदेशे पलिं निवेश्य चौर्येण वर्तेते, तयोश्च भगिनी वल्गुमती नाम, तत्र कदाचिद् गौतमाभिधानो नैमित्तिकः समायातः, ताभ्यां च प्रतिपन्नः, तया च वल्गुमत्योक्तं-यथा नायं भद्रकः, अत्र वसन् यदा तदाऽयमस्माकं पल्लिविनाशाय भविष्यत्यतो निर्भाव्यते, ततस्ताभ्यां तद्वचनान्निर्झटितः, स तस्यां प्रद्वेषमापन्नः प्रतिज्ञामग्रहीद्, यथा-नाहं गौतमो भवामि यदि वल्गुमत्युदरं विदार्य तत्र न स्वपिमीति, अन्ये तु भणन्ति-सैव बल्गुमत्यपत्यानां लघुत्वात्पल्लिस्वामिनी, उत्कलकलिङ्गी नैमित्तिकौ, सा तयोर्भक्त्या गौतमं पूर्वनैमित्तिकं निर्वाटितयती, अतस्तद्वेषात्प्रतिज्ञामादाय सर्षपान् वपन्निर्गतः, सर्षपाच वर्षाकालेन जाताः, ततस्तदनुसारेणान्यं राजानं प्रवेश्य सा पल्ली समस्ता लुण्टिता दग्धा च, गौतमेनापि वल्गुमत्या उदरं पाटयित्वा सावशेषजीवितदेहाया उपरि सुप्तमित्येषा वा सचित्ता द्रव्यशय्येति ॥ भावशय्याप्रतिपादनार्थमाह दुविहा य भावसिज्जा कायगए छविहे य भावंमि । भावे जो जत्थ जया सुहदुहगन्भाइसिजासु ॥३०१॥ द्वे विधे-प्रकारावस्याः सा द्विविधा, तद्यथा-कायविषया षभावविषया च, तत्र यो जीवः 'यत्र' औदयिकादौ भावे ॥३५९॥
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy