SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ अथ द्वितीयं शय्यैषणाख्यमध्ययनम् उक्तं प्रथममध्ययनं, साम्प्रतं द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने धर्माधारशरीरपरिपालनार्थमादावेव पिण्डग्रहण विधिरुक्तः, स च गृहीतः सन्नवश्यमल्पसागारिके प्रतिश्रये भोक्तव्य इत्यतस्तद्गतगुणदोषनिरूपणार्थ द्वितीयमध्ययनम् , अनेन च सम्बन्धेनायातस्यास्याध्ययनस्य चत्वार्यनुयोगद्वाराणि व्यावर्णनीयानि, तत्र नामनिष्पन्ने निक्षेपे शय्यैषणेति, तस्या निक्षेपविधानाय पिण्डैषणानियुक्तियंत्र संभवति तां तत्रातिदिश्य प्रथमगाथया अपरासां च नियुक्तीनां यथायोगं संभवं द्वितीयगाथया आविर्भाव्य निक्षेपं च तृतीयगाथया शय्याषट्रनिक्षेपे प्राप्ते नामस्थापने अनादृत्य नियुक्तिकृदाह दव्वे खित्ते काले भावे सिज्जा य जा तहिं पगयं । केरिसिया सिना खलु संजयजोगत्ति नायव्वा ॥२९८॥ द्रव्यशय्या क्षेत्रशय्या कालशय्या भावशय्या, अत्र च या द्रव्यशय्या तस्यां प्रकृतं, तामेव च दर्शयति-कीदृशी सा द्रव्यशय्या? संयतानां योग्येत्येवं ज्ञातव्या भविष्यति ॥ द्रव्यशय्याव्याचिख्यासयाऽऽहतिविहा य दव्वसिज्जा सचित्ताऽचित्त मीसगा चेव । खित्तमि जंमि खित्ते काले जा जंमि कालंमि ॥२९९ ॥ त्रिविधा द्रव्यशय्या भवति, तद्यथा-सचित्ता अचित्ता मिश्रा चेति, तत्र सचित्ता पृथिवीकायादौ, अचित्ता तत्रैव प्रा
SR No.600281
Book TitleAcharanga Sutram Uttar Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages250
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy