________________
द्वार-शस्यतेऽनेनेति शस्त्रं, तच्च द्विधा-द्रव्यशस्त्रं भावशस्त्रं च, द्रव्यशस्वमपि समासविभागभेदाविधैव, तत्र समासद्रव्यशस्त्रप्रतिपादनायाहहलकुलियविसकुद्दालालित्तयमिगसिंगकट्ठमग्गी य । उच्चारे पासवणे एयं तु समासओ सत्धं ॥ ९५ ॥ तत्र हलकुलिकविषकुद्दालालित्रकमृगशृङ्गकाष्ठाग्म्युच्चारप्रश्रवणादिकमेतत् 'समासतः' संक्षेपतो द्रव्यशस्त्रम् ॥ विभागद्रव्यशस्त्रप्रतिपादनायाह- .. किंची सकायसत्यं किंची परकाय तदुभयं किंचि । एयं तु व्वसत्यं भावे अ असंजमो सत्थं ॥९६ ॥
किश्चित्स्वकायशस्त्रं पृथिव्येव पृथिव्याः, किश्चित्परकायशस्त्रमुदकादि, तदुभयं किश्चिदिति भूदकं मिलितं भुव इति । |तच्च सर्वमपि द्रव्यशस्त्रं, भावे पुनः 'असंयमः' दुष्प्रयुक्ता मनोवाकायाः शस्त्रमिति ॥ वेदनाद्वारमाह
पायच्छेयण भेयण जंघोरु तहेव अंगुवंगेसुं। जह हुंति नरा दुहिया पुढविक्काए तहा जाण ॥ ९७॥
यथा पादादिकेष्वङ्गप्रत्यङ्गेषु छेदनभेदादिकया क्रियया नरा दुःखिताः, तथा पृथिवीकायेऽपि वेदनां जानीहि ॥ यद्यपि जापादशिरोग्रीवादीन्यङ्गानि पृथिवीकायिकानां न सन्ति तथापि तच्छेदनानुरूपा वेदनाऽस्त्येवेति दर्शयितुमाह
- नत्थि य सि अंगुवंगा तयाणुरूवा य वेयणा तेसिं । केसिंचि उदीरंती केसिंचऽतिवायए पाणे ॥ ९८॥ Pा पूर्वार्द्ध गतार्थ, केषाञ्चित्पृथिवीकायिकानां तदारम्भिणः पुरुषा वेदनामुदीरयन्ति, केषाञ्चित्तु प्राणानप्यतिपातयेयुरिति । तथा हि भगवत्यां दृष्टान्त उपात्तो यथा-चतुरन्तचक्रवर्त्तिनो गन्धपेषिका यौवनवर्तिनी बलवती आमलक