________________
श्रीआचा राङ्गवृत्तिः (शी०)
॥ ३२ ॥
णता अप्यसंख्येयलोकाकाशप्रदेशप्रमाणाः, तथा कायस्थितिरपि मृत्वा मृत्वाऽसंख्येयलोकाकाशप्रदेशपरिमाणं कालं तत्र तत्रोत्पद्यन्त इति, एवं क्षेत्रकालाभ्यां परिमाणं प्रतिपाद्य परस्परावगाहप्रतिपिपादयिषयाऽऽह
बायरपुढविक्काइयपज्जत्तो अन्नमन्नमोगाढो । सेसा ओगाहंते सुहमा पुण सव्वलोगंमि ॥ ९१ ॥
बादरपृथिवीकायिकः पर्याप्तो यस्मिन्नाकाशखण्डे अवगाढः तस्मिन्नेवाकाशखण्डेऽपरस्यापि बादरपृथिवीकायिकस्य शरीरमवगाढमिति, शेषास्तु अपर्याप्तकाः पर्याप्तकनिश्रया समुद्यमाना अनन्तरप्रक्रियया पर्याप्त कावगाढाकाशप्रदेशावगाढाः, सूक्ष्माः पुनः सर्वस्मिन्नपि लोकेऽवगाढा इति ॥ उपभोगद्वारमाह
चकमणे य द्वाणे निसीयण तुयहणे य कयकरणे । उच्चारे पासवणे उवगरणाणं च निक्खिवणे ॥ ९२ ॥ आलेवण पहरण भूसणे य कयविक्कए किसीए य । भंडापि य करणे उवभोगविही मणुस्साणं ॥ ९३ ॥ चङ्क्रमणोर्द्धस्थाननिषीदनत्वग्वर्त्तनकृतकपुत्र ककरणउच्चारप्रश्रवणउपकरण निक्षेप आलेपनप्रहरणभूषणक्रयविक्रयकृषीकरणभण्ड कघट्टनादिषूपभोगविधिर्मनुष्याणां पृथिवीकायेन भवतीति ॥ यद्येवं ततः किमित्यत आह
एएहिं कारणेहिं हिंसंति पुढविकाइए जीवे । सायं गवेसमाणा परस्स दुक्खं उदीरंति ॥ ९४ ॥ एभिश्चङ्क्रमणादिभिः कारणैः पृथिवीजीवान् हिंसन्ति, किमर्थमिति दर्शयति- 'सातं' सुखमात्मनोऽन्वेषयन्तः परदुःखान्यजानानाः कतिपयदिवसरमणीय भोगाशाकर्षितसमस्तेन्द्रियग्रामा विमूढचेतस इति, 'परस्य' पृथिव्याश्रितजन्तुराशेः 'दुःखम्' असातलक्षणं तदुदीरयन्ति - उत्पादयन्तीति, अनेन भूदानजनितः शुभफलोदयः प्रत्युक्त इति ॥ अधुना शस्त्र
अध्ययनं १
उद्देशकः २
॥ ३२ ॥