SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ ALMORASSACROS च-“अज्ञो जन्तुरनीशः स्यादात्मनः सुखदुःखयोः । ईश्वरप्रेरितो गच्छेच्छु_ वा स्वर्गमेव वा ॥१॥" तथाऽन्ये ब्रवते -न जीवादयः पदार्थाः कालादिभ्यः स्वरूपं प्रतिपद्यन्ते, किं तर्हि ?, आत्मनः, कः पुनरयमात्मा?, आत्माद्वैतवादिनां विश्वपरिणतिरूपः, उक्तश्च-"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् Film" तथा-"पुरुष एवेदं सर्वे यद्भूतं यच्च भाव्य"मित्यादि। एवमस्त्यजीवः, स्वतः नित्यः कालत इत्येवं सर्वत्र योज्यम् ॥ ___ तथा अक्रियावादिनो-नास्तित्ववादिनः, तेषामपि जीवाजीवाश्रवबन्धसंवरनिर्जरामोक्षाख्याः सप्त पदार्थाः स्वपरभेदायेन तथा कालयदृच्छानियतिस्वभावेश्वरात्मभिः पद्भिश्चिन्त्यमानाश्चतुरशीतिविकल्पा भवन्ति, तद्यथा-नास्ति जीवः स्वतः कालतः नास्ति जीवः परतः कालत इति कालेन द्वौ लब्धौ, एवं यदृच्छानियत्यादिष्वपि द्वौ द्वौ भेदौ प्रत्येकं भवतः, सर्वेऽपि जीवपदार्थे द्वादश भवन्ति, एवमजीवादिष्वपि प्रत्येकं द्वादशैते, सप्त द्वादशकाश्चतुरशीतिरिति ८४ । अयमत्रार्थः नास्ति जीवः स्वतः कालत इति, इह पदार्थानां लक्षणेन सत्ता निश्चीयते कार्यतो वा?, न चात्मनस्ताहगस्ति किचिल्लक्षणं येन सत्ता प्रतिपद्यमहि, नापि कार्यमणूनामिव महीधादि सम्भवति, यच्च लक्षणकार्याभ्यां नाभिगम्यते वस्तु तन्नास्त्येव, वियदिन्दीवरवत्, तस्मान्नास्त्यात्मेति । द्वितीयविकल्पोऽपि यच्च स्वतो नात्मानं बिभर्ति गगनारविन्दादिकं तत्परतोऽपि नास्त्येव, अथवा सर्वपदार्थानामेव परभागादर्शनात्सर्वार्वाग्भागसूक्ष्मत्वाचोभयानुपलब्धेः सर्वानुपलब्धितो नास्तित्वमध्यवसीयते, उक्कं च-“यावद् दृश्यं परस्तावद्भागः स च न दृश्यते” इत्यादि। तथा यदृच्छातोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा !, अनभिसन्धिपूर्विकाऽर्थप्राप्तिर्यदृच्छा, “अतर्कितोपस्थितमेव सर्व, चित्रं
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy