________________
+
श्रीआचाराङ्गवृत्तिः (शी०)
॥१७॥
ASASUSASAASAAN*X
सागरोपमोत्सर्पिण्यवसर्पिणीपुद्गलपरावर्तातीतानागतवर्तमानसर्वाद्धादिव्यवहाररूपः १। द्वितीयविकल्पे तु कालादेवा- अध्ययन त्मनोऽस्तित्वमभ्युपेयं, किं त्वनित्योऽसाविति विशेषोऽयं पूर्वविकल्पात् २ । तृतीयविकल्पे तु परत एवास्तित्वमभ्युपग
उद्देशकः१ म्यते, कथं पुनः परतोऽस्तित्वमात्मनोऽभ्युपेयते?, नन्वेतप्रसिद्धमेव सर्वपदार्थानां परपदार्थस्वरूपापेक्षया स्वरूपपरिच्छेदो, यथा दीर्घत्वापेक्षया इस्वत्वपरिच्छेदो इस्वत्वापेक्षया च दीर्घत्वस्येति, एवमेव चानात्मनः स्तम्भकुम्भादीन् समीक्ष्य तव्यतिरिक्त वस्तुन्यात्मबुद्धिः प्रवर्तत इति, अतो यदात्मनः स्वरूपं तत्परत एवावधार्यते न स्वत इति ३ । चतुर्थविकल्पोऽपि प्राग्वदिति चत्वारो विकल्पाः ४। तथाऽन्ये नियतित एवात्मनः स्वरूपमवधारयन्ति, का पुनरियं नियतिरिति, उच्यते, पदार्थानामवश्यंतया यद्यथाभवने प्रयोजककी नियतिः, उक्तं च-"प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः, सोडवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः॥१॥" इयं च मस्करिपरिवाण्मतानुसारिणी प्राय इति । अपरे पुनः स्वभावादेव संसारव्यवस्थामभ्युपयन्ति, कः पुनरयं स्वभावः', वस्तुनः स्वत एव तथापरिणतिभावः स्वभावः, उक्तं च-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृगपक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं, न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥ स्वभावतः प्रवृत्तानां, निवृत्तानां स्वभावतः। नाहं कर्तेति भूतानां, यः पश्यति स पश्यति ॥२॥ केनाञ्जितानि नयनानि मृगाङ्गनानां, कोऽलङ्करोति रुचिराङ्गरुहान्मयूरान् । कश्चोत्पलेषु दलसन्निचयं करोति, को वा दधाति विनयं कुलजेषु पुंस्सु? ॥ ३॥" तथाऽन्येऽभि-II दधते-समस्तमेतज्जीवादीश्वरामसूतं, तस्मादेव स्वरूपेऽवतिष्ठते, कः पुनरयमीश्वरः१, अणिमाद्यैश्वर्ययोगादीश्वरः, उक्तं