SearchBrowseAboutContactDonate
Page Preview
Page 658
Loading...
Download File
Download File
Page Text
________________ श्रीआचाराङ्गवृत्तिः (शी०) ॥३१२॥ उक्तस्तृतीयोद्देशकः, साम्प्रतं चतुर्थ आरभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके भगवतः परीषहोपसर्गा- उपधा०९ धिसहनं प्रतिपादितं, तदिहापि रोगातङ्कपीडाचिकित्साव्युदासेन सम्यगधिसहते तदुसत्तौ च नितरां तपश्चरणायोद्य-17 |च्छतीत्येतत्प्रतिपाद्यते, तदनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् उद्देशकः४ ओमोयरियं चाएइ अपुढेऽवि भगवं रोगेहिं । पुट्टे वा अपुटे वा नो से साइजई तेइच्छं ॥१॥ संसोहणं च वमणं च गायब्भंगणं च सिणाणं च । संबाहणं च न से कप्पे दन्तपक्खालणं च परिन्नाए ॥२॥ विरए गामधम्मेहि रीयइ माहणे अबहुवाई। सिसिरमि एगया भगवं छायाए झाइ आसीय ॥३॥ आयावइ य गिम्हाणं अच्छइ उक्कुडुए अभित्तावे । अदु जाव इत्थ लूहेणं ओयणमंथुकुम्मासेणं ॥४॥ अपि शीतोष्णदंशमशकाक्रोशताडनाद्याः शक्याः परीषहाः सोढुं न पुनरवमोदरतां, भगवांस्तु पुना रोगैरस्पृष्टोऽपि | वातादिक्षोभाभावेऽप्यवमौदर्य न्यूनोदरतां शक्नोति कर्तु, लोको हि रोगैरभिद्रुतः संस्तदुपशमनायावमोदरतां विधत्ते | भगवांस्तु तदभावेऽपि विधत्त इत्यपिशब्दार्थः, अथवाऽस्पृष्टोऽपि कासश्वासादिभिर्द्रव्यरोगैः अपिशब्दात्स्पृष्टोऽप्यसद्धेदनीयादिभिर्भावरोगैन्यूनोदरतां करोति, अथ किं द्रव्यरोगातङ्का भगवतो न प्रादुष्ष्यन्ति येन भावरोगैः स्पृष्ट इत्युक्तं ?, तदुच्यते, भगवतो हि न प्राकृतस्येव देहजाः कासश्वासादयो भवन्ति, आगन्तुकास्तु शस्त्रप्रहारजा भवेयुः, इत्येतदेव ॥२१२
SR No.600280
Book TitleAcharanga Sutram Purv Bhag
Original Sutra AuthorTattvadarshanvijay
Author
PublisherParampad Prakashan
Publication Year2001
Total Pages668
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy